पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० अथर्वसंहिताभाष्य र्थम् । आयुषे चिरकालजीवनाय वर्चसे तेजसे बलाय च । एवं निष् तिपाशाद् विमुक्त: प्रसूतः अस्माभिरनुज्ञातः सन् अर्द: विप्रकृष्टकाल- व्यापि मदम मदकरं तृप्तिकरम् अन्नम् अद्धि क्षणे । “हुझल्भ्यो हेर्धिः” छु ॥ । अद भ- पञ्चमी ॥ नमस्तु ते निते तिग्मतेजोय॒स्मान् वि वृ॑ता बन्धपाशान् । य॒मो मह्यं पुन॒रित् त्वा॑ द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥ २ ॥ नमः॑ । अ॒स्तु॒ । ते॒ । नि॒ऽऋ॒ते॒ । ति॒ग्म॒ऽते॒जः । अ॒य॒स्मया॑न् । वि । चृत॒ । बन्धऽपाशान् । य॒मः । मह्य॑म् । पुन॑ । इत् । त्वाम् । दाति॒ । तस्मै॑ । य॒माय॑ । नम॑ः । अ॒स्तु । स॒त्यवे॑ ॥ २ ॥ हे तिग्मतेजः तीक्ष्णदीप्ते हे निॠते अनिष्टकारिणि देवते ते तुभ्यं नमोस्तु अस्माभिः कृतो नमस्कारो भवतु । तेन प्रीता त्वम् अयस्मयान् अयोमयान् अतिदृढान् बन्धपाशान् बन्धनरज्जुविशेषान् वि चृत विभु- ञ्च । चृती हिंसाग्रन्थनयोः । तुदादित्वात् शः ॥ हे सा- धक पुरुष त्वां निरृतिपाशविमोके सति मह्यं यमः पुनरेव ददाति । नि- ॠतिपाशेन पूर्व मृतप्रायोभूः इदानीं तडिमोकेन लब्धजीवनत्वाद् यम एव त्वां पुनर्दत्तवान् इत्यर्थः । तस्मै यमाय मृत्यवें प्राणापहारिणे नमोस्तु ॥ पष्ठी ॥ अयस्मये॑ द्रुपदे वैधिष इ॒हाभिहि॑तो मृत्युभि॒ये॑ स॒हस्र॑म् । य॒मेन॒ त्वं पितृभिः संविद्वान उत्तमं नाकमधिं रोहये॒मम् ॥ ३ ॥ अ॒य॒स्मये॑ । द्रुऽप॒दे । वे॒धिषे। इ॒ह । अभिऽर्हितः । मृत्युऽभि॑ि । ये स॒हस्र॑म् । य॒मेन॑ । त्वम् । पि॒तृऽभिः॑ः । स॒म्ऽवि॒द॒ानः । उ॒ऽत॒मम् । नाक॑म् । अधि॑ । रोहय | इमम् ॥ ३ ॥ १ ASP वृता. \ with BÉKKRPJCSCr.