पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू० ६३.]२३६ षष्ठं काण्डम् । १३१ अयस्मये अयोबिकारे शृङ्खलादौ द्रुपदे दारूनिर्मिते पादबन्धने हे निरृ त्वं यदा बेधिषे पुरुषं यदा बनासि तदा इह अस्मिन् लोके स पुरुषः मृत्युभिः मृत्युपाशै: अभिहितः बद्धो भवति । भिपूर्वो दधातिर्बन्धने वर्तते । मृत्यवो विशेष्यन्ते । ये प्रसिद्धाः ज्वरादिरोगा: रक्षः पिशाचादयश्चं [ सहस्रम् ] सहस्रसंख्याका मरणहेतुभू- ताः सन्ति । तैर्मृत्युभिरिति संवन्धः ॥ हे निरृते त्वं यमेन त्वदधि- छात्रा पितृभिः पितृदेवताभिश्च संविदानां ऐकमत्यं गता उत्तमम् उत्कृ- छतमं नाकम दुःखसंस्पर्शशून्यं सुखम इमं पुरुषम् अधि रोहय प्राप- य । * संविदानं इति । संपूर्वाद् विदे: “समो गम्मृच्छि” इति आत्मनेपदम् ॐ ॥ सप्तमी ॥ संस॒मिद् यु॑वसे वृष॒न्नने॒ विश्वा॑न्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ ४ ॥ । सम॒ऽस॑म् । इत् । यु॒व॒से॒ । वृष॒न् । अग्ने॑ । विश्वा॑नि । अ॒र्यः । आ । इ॒डः । प॒दे । सम् । इ॒ध्यसे॒ । सः । न । वसू॑नि । आ । भर ॥ ४ ॥ 66 हे वृषन् कामानां वर्षितः अग्ने अर्य: स्वामी त्वम् आ समन्ताद् विश्वानि सर्वाणि धनानि संसम् इद् युवसे संयुवस एव सर्वथा सम्यक् प्रापयसि । "प्रसमुपोदः पादपूरणे” इति समो द्विर्वचनम् । यु मिश्रणे इति धातुः । 'अर्य: स्वामिवैश्ययोः ” इति निपातितः अर्य- अर्यस्य स्वाम्याख्या चेत्” [ फि० १. १७] इति अन्तोदात्त- स त्वम् इडस्पदे इळाया भूम्या: पदे स्थाने उत्तरवेदिल- क्षणे । 'एतद् वा इळायास्पदं यद् उत्तरवेदीनाभिः इति ऐतरेय- कम [ ऐ० ब्रा॰ १. २४] । तत्र समिध्यसे संदीप्यसे । हु“आतो धा- शब्दः । त्वम् । 1 $ inserts the word अध्यात्मादिषु before ज्वरादि Bat doubtless the word belongs to some other passage, and lhas been misplaced hege through a mistake of the copyist. 2S omits च. 3 So S'. The text in S has also संविदान उ०. 4S' अर्यः.