पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ अपर्वसंहिताभाष्ये तो: " इत्यत्र आत इति योगविभागाद् इडाशब्दस्य आल्लोपः । “इ. डाया वा ." इति विसर्जनीयस्य सत्वम् छ । स ताहशस्त्वम् । नः अस्मभ्यं वसूनि धनानि आ भर आहर प्रयच्छ ॥ [इति ] सप्तमेनुवाके प्रथमं सूक्तम् ॥ “सं जानीध्वम्” इति तृचेन सांमनस्यकर्मणि उदकुम्भं सुराकुम्भं वा संपात्य अभिमन्त्र्य सूत्रोक्तमकारेण ग्राममध्ये निनयेत् ॥ तथा तत्रैव कर्मणि त्रिवर्षदेशीयाया वत्सतर्या मांसविशेषम् अनेन तृ- चेन संपात्य अभिमन्य आशयेत् ॥ तथा भक्तम् अनेन संपात्य अभिमन्य प्राशयेत् ॥ तथा सुरां प्रपोदकं वा अनेन संपात्य अभिमन्त्र्य पाययेत् ॥ सूत्रितं हि । "सहृदयम् [३.३०] तदू षु [५ १.५] सं जानीध्वम् [६. ६४] एह यातु [ ६. ७३] वः पृच्यन्ताम् ” [६. ७४] इति प्रक्रम्य “उदकुलिजं संपातवन्तं ग्रामं परिहत्य मध्ये निनयति । एवं सुराकुलिजं त्रिहायण्या वत्सतर्या: शुक्त्यानि पिशितानि आशयति इत्यादि [ कौ २.३]॥ 39 ० 66 “अव मन्युः” इति तृचेन संग्रामजयकर्माणि कुर्यात् । तानि च आ- ज्यहोम: सक्तुहोम: धनुरिष्मेनौ धनुःसमिदाधानम् शरमेनौ शरसमिदा- धानम्, संपातिताभिमन्त्रितधनु: मदानं च प्रत्येतव्यानि । एतेषु कर्मसु अ नुष्ठितेषु संग्रामे दृष्टमात्रेण शत्रवः पलायन्ते । तद् उक्तं संहिताविधौ । 'अदारसृत [१.२०] स्वस्तिदा: [१.२१] अव मन्यु: [ ६. ६५ ]" इति मंक्रम्य “ 'आज्यसक्तून् जुहोति" इत्यादि [ कौ०२. ५ ] ॥ तथा अस्य तृचस्य अपराजितगणे पाठाद् "अभयैरपराजितैराज्यं जु- हुयात्" इत्यादिषु [कौ० १४.३] गणभयुक्तो विनियोग उन्नेयः ॥ 66 तत्र प्रथमा ॥ सं जा॑ांनीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् । 1 $ वन्सतर्योः शुक्त्यानि. The last word may read as शुक्लानि. We read वत्सतर्याः शुक्त्यानि with Kansi Kesava (13) explans शुक्त्यानि hy. आम्लेन रसेन सिक्कानि. Därilu's MS: आपूतरसे कृत्या. May he mc. आम्लग्से ?