पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । दे॒वा भागं यथा पूर्वे संज्ञानाना उपास॑ते ॥ १ ॥ सम् । जानध्वम् । सम् । पृज्यध्वम् । सम् । वः । मनो॑सि । जा॒नाम् दे॒वाः । भा॒गम् । यथा॑ । पूर्वे॑ । स॒ऽजा॒ना॒नाः । उ॒प॒ऽआस॑ते ॥ १ ॥ हे सांमनस्यकामा जना: यूयं सं जानीध्वम् समानज्ञानयुक्ता भवत । ज्ञानस्य सर्वव्यवहारमूलत्वात् तद्विगानाभावः प्रथमं प्रार्थ्यते । अवबोधने । “संप्रतिभ्याम् अनाध्याने [अ० ७. सू० ६४.]२३७ स- ज्ञा इति आत्मनेपदम् । 'ज्ञाज- नोर्जा ” इति जा आदेश: ४ । एवं समानज्ञानाः सन्तस्ततः सं पृ- ज्यध्वम् संपृक्ता: संसृष्टकार्या भवत । पृची संपर्क ४ । मानज्ञानत्वसिद्धये तत्करणस्यापि एकविषयतां प्रार्थयते । वः युष्माकं म नांसि ज्ञानोत्पत्तिनिमित्तानि अन्त:करणानि सं जानताम् समानम् ए- कविधम् अर्थ जानन्तु । परस्परविरुद्धज्ञानजनकानि मा भूवन्नित्यर्थः । उक्तम् अर्थ दृष्टान्तेन द्रढयति देवा भागम् इति । यथा खलु पुरा देवा इन्द्रादयः संजानाना: समानकार्यज्ञानाः सन्तः पूर्वे असुरेभ्य: पूर्व- भाविनः भागम् यजमाने: परिकल्पितं हविर्भागम् उपासते प्राप्नुवन्ति । अतो यूयमपि तहत् परस्परविद्वेषपरिहारेण संजानाना इष्टफलं भजतेति भावः । तच्च देवानां सांमनस्यं तैत्तिरीयके "देवासुरा: संयत्ता आसन् । ते देवा मिथो विमिया आसन्" [तै० सं० ६.२.२.१] इत्यादिप्रतिपा- दिनाख्यायिकया अवगन्तव्यम् ॥ 66 1S' जानतु. १३३ 66 द्वितीया || समानो मन्त्रः समितिः समानी स॑मानं व्रतं सह चित्तमे॑षाम् । स॒मानेन॑ वो ह॒विषा॑ जुहोमि समा॒ानं चेतो॑ अभि॒संवि॑िशध्वम् ॥ २ ॥ समानः । मन्त्रः । सम्ऽव॑तिः । समानी । स॒मानम् । व्र॒तम् । स॒ह । चि तम् । एषाम् । स॒मा॒नेन॑ । वः॒ । ह॒विषा॑ । जु॒होमि॒ । स॒मा॒नम् । चेत॑ः । अ॒भि॒ऽस॑वि॑श- • ध्वम् ॥ २ ॥