पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ अंथर्वसंहिताभाष्ये भवतु । त्यम् " मन्त्रः गुप्तभाषणं कार्याकार्यपर्यालोचनात्मकम् तदपि समानः एकरूपो मत्रि गुप्तभाषणे । अस्माद् भावे घञ् । “नित्यादिर्नि- इति आदिरुदात्तः ॥ तथा समितिः संगतिः कार्येषु प्र- 20 " वृत्तिः । सापि समानी एकरूपा भवतु । “केवलमामकभागधे- यपापापरसमानार्य • इति ङीप् । उदात्तनिवृत्तिस्वरेण ङीप उदात्त- त्वम् ॥ तथा व्रतम् । कर्मनामैतत् । कर्माणि समानम् एकरूपं भवतु | चित्तम् अन्तःकरणम् तदपि एषां सह एकविधं भवतु । उ- तस्य फलस्य सिद्धये समानेन साधारणेन ऐक्यजनकेन वः युष्माकं सं- बन्धिना हविषा आज्यादिना जुहोमि । आज्यम् अग्नौ मन्त्रेण प्रक्षिपा- मीत्यर्थः । “तृतीया च होश्छन्दसि” इति कर्मणि तृतीया । य- स्माद् एवं तस्मात् समानम् एकरूपं चेतः चित्तम् अभिसंविशध्वम आ- भिमुख्येन संप्राद्भुत || 66 तृतीया ॥ समानी व आकृतिः समाना हृदयानि वः । स॒मानम॑स्तु वो॒ो मनो॒ यथा॑ वः॑ सु॒स॒हास॑ति ॥ ३ ॥ स॒मानी । : । आऽकृ॑तिः । समाना | हृद॑यानि । वः । समानम् । अस्तु वः । मन॑ः । यथा॑ । वः॒ः । सु॒ऽस॑ह॒ | अस॑ति ॥ ३ ॥ 1 हे सांमनस्यकामाः वः युष्माकम् आकृति: संकल्प: समानी एकरूपा नवतु ॥ तथा वः युष्मदीयानि हृदयानि संकल्पजनकानि हत्पुण्डरीकमध्य- वर्तीनि अन्तःकरणानि समाना समानानि एकरूपाणि भवन्तु । श्छन्दसि बहुलम्” इति शेर्लोपः ॥ तथा वः युष्माकं मनः एतत्संज्ञकं सुखांद्यापरोक्ष्यजनकम इन्द्रियं समानम् एकरूपम् अस्तु । यथा येन प्रकारेण वः युप्माकं सर्वे कार्ये सुठु सह असति भवति । तथा सांमनस्यं करोमीत्यर्थः । * “बहुलं छन्दसि.” इति अस्तेः परस्य शपो लुगभावः ॥ 19' सुख्याधापरा.