पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ अपर्वसंहिताभाष्ये पञ्चमी ॥ निह॑स्तेभ्यो नैर्हस्तं यं दे॑वा॒ः शरु॒मस्य॑थ । वृश्चामि॒ शत्रूणा॑ ब॒ाहून॒नेन॑ ह॒विषा॒हम् ॥ २ ॥ निःऽह॑स्तेभ्यः । नै॒ऽह॒स्तम् । यम् । दे॒वाः । शरु॑म् । अस्य॑थ । वृ॒श्चा॑ । शत्रूणाम् । बा॒हून् । अ॒नेन॑ । ह॒विषा॑ । अ॒हम् ॥ २ ॥ हे देवाः निर्हस्तेभ्यः निर्गता हस्ता येभ्यस्ते निर्हस्ताः । निर्गतहस्त- सामर्थ्या इत्यर्थः । नाद चतुर्थी । असुराणां निर्हस्तत्व- प्राप्तय इत्यर्थः । नैर्हस्तम निर्हस्तत्वमापकं यं शरुम हिंसकं बाणाद्यायुधम् अस्यथ क्षिपथ । शू हिंसायाम् । शृस्वृस्त्रिहीत्यादिना [ उ०१.१०] उप्रत्ययः । ने शरादिरूपेण हविषा हूयमानेन देवसंबन्धि- नैव आयुधेन शत्रूणां वाहून् आयुधग्रहणार्थान् अहं वृश्यामि छिन-

  • ओवश्व छेदने । “ग्रहिज्या इत्यादिना संप्रसारणम् ॥

>> नि । इन्द्र॑श्चकार प्रथ॒मं नैर्हृस्तमसु॑रेभ्यः । जय॑न्तु॒ सत्वा॑नो॒ मम॑ स्षि॒रेणेन्द्रे॑ण मे॒दिना॑ ॥ ३ ॥ इन्द्रः । च॒कार॒ । प्र॒थ॒मम् । नैऽह॑स्तम् । असु॑रेभ्यः । जय॑न्तु । सवा॑नः । मम॑ । स्थि॒रेण॑ । इन्द्र॑ण । मे॒दिना॑ ॥ ३ ॥ इन्द्रः देवानाम् अधिपतिः प्रथमम् पूर्वम् असुरेभ्यः शत्रुभ्यो नैर्हस्तम निर्हस्तत्वं हस्तसामर्थ्यवैकल्यं चकार कृतवान् । तादृशेन इन्द्रेण स्थिरेण युद्धकर्मणि दृढेन मेदिना स्निग्धेन सहायंभूतेन मम मदीयाः सत्वानः सादयन्ति विशरणं प्रापयन्तीति योद्धृजना: सत्वानः । ॐ सदेरन्तर्भा- वितण्यर्थात् कनिष् । जयन्तु शत्रून् पराजितान् कुर्वन्तु । दिनेति । जिमिदा स्नेहने । “शमित्यष्टाभ्य: ०” इति घिनुण् प्रत्यय: अ- मे- ९ P नै:ऽहंस्त. 1S has the word- & up to day in the preface to the following hymu, and not here.