पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. स.० ६६.]२३९ षष्ठं काण्डम् । १३७ स्मादपि द्रष्टव्यः । यद्द्वा 'नन्दिग्रहिपचादिभ्यः" इति ग्रह्मादेराकृतिग- णत्वात् णिनिः ॥ इति सप्तमेनुवाके द्वितीयं सूक्तम् ॥ निर्हस: ” इति तृचस्य “अव मन्युः ” [ ६. ६५] इति तृचवत् सं- ग्रामजयकर्मणि विनियोगो द्रष्टव्यः । सूत्रं च तत्रैवोदाहृतम् || 66 'परि वर्मानि ” इति तृचस्य “निर्हस्त: ” [ ६. ६६] इति तृचवत् संग्रामजयकर्मणि विनियोगो द्रष्टव्यः ॥ तथा अनेन तूचेन परसेनाया विद्वेषणत्रासनकामो राजा सेनां त्रिः परिगच्छेत् ॥ 66 तथा तत्रैव कर्मणि अनेन तृचेन संपातिताभिमन्त्रितसोममणिं चर्म- वेष्टितं कृत्वा राज्ञे बनीयात् । सूत्रितं हि । “परि वर्मानि [ ६. ६७ ] 'इन्द्रो जयाति [६. ९७] इति राजा त्रि: सेनां परियाति । उक्तः पूर्वस्य "सोमांशुः ” इति [ कौ॰२, ७] ॥ 66 66 अनयोस्तृचयो: अपराजितगणे पाठाद् यात्" [को० १४.३] इत्यादिषु गणप्रयुक्तो अभ्यैरपराजितैराज्यं जुहु- विनियोगोनुसंधेयः ॥ 66 तत्र प्रथमा ॥ निह॑स्त॒ शत्रुरभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान् । सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्ये॑षामघारो विवि॑द्धं ॥ १ ॥ निःऽह॑स्त। शत्रु । अ॒भि॒िऽदास॑न् । अ॒स्तु॒ । ये । सेना॑भिः । युध॑म् । आ॒ऽय- न्ति । अस्मान् । सम् । अर्पय । इन्द्र । मह॒ता । व॒धेन॑ । द्रातु॑ । ए॒ष॒म् । अघऽहि॒रः । विऽवि॑िद्धः ॥ १ ॥ अभिदासन उपक्षपयन् अस्माकं पीडां कुर्वन् शत्रुः निर्हस्तोस्तु निर्ग- तहस्तसामर्थ्यो भवतु । शत्रुरिति जातावेकवचनम् । ये श- त्रवः सेनाभिः स्वकीयाभिः युधम् योद्धुम् अस्मान् आत्यन्ति अभिगच्छन्ति १ B समर्प २A विविधः ३P पम्.