पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० अथर्वसंहिताभाष्ये हे अमित्रा: शत्रवः मूढाः जयोपायज्ञानशून्याः चरत युद्धभूमौ संच- रत | तंत्रं दृष्टान्तः । अशीर्षाण इवाहयः । अशिरस्काश्छिन्नशिरस: स- र्पा: केवलं चेष्टन्त एव न तु किंचित् कार्य कर्तुं शक्नुवन्ति तथा भवते - त्यर्थः । तेषां तादृशानाम अग्निमूढानाम् अस्मदाहुतितृप्तेन अग्निना ब्या- मोहं प्रापितानां वः युष्माकं मध्ये वरंवरम श्रेष्ठं श्रेष्ठं नायकम् इन्द्रो दे- वो हन्तु मारयतु ॥ षष्ठी ॥ ऐषु॑ नह्म॒ वृषा॒ाजिनं॑ हरिणस्य॒ भियं॑ कृषि | परांङमित्र एषतर्वाची गौरुपैषतु ॥ ३ ॥ आ । ए॒षु॒ । न॒ह्म॒ । वृषा॑ । अ॒जिन॑म् । ह॒रि॒णस्य॑ । भिय॑म् । कृ॒धि॒ । परा॑ङ् । अ॒मित्र॑ः । एष॑तु॒ । अ॒र्वाची॑ । गौः । उप॑ । एषतु ॥ ३ ॥ हे इन्द्र वृषा कामानां वर्षेता त्वं हरिणस्य कृष्णमृगस्य अजिनम् त्व- चं सोममणिवेष्टनम् एषु अस्मदीयेषु भटेषु आ ना आबद्धं कुरु । त- तः शत्रूणां भियम् भीतिं कृधि कुरु उत्पादय | अमित्र: शत्रुः पराङ् युद्धपराङ्मुखः सन् एषतु गच्छतु । पलायताम् इत्यर्थः । गतौ इष 1 ततः शत्रुसंबन्धिनी गौ: अर्वाची अस्मदभिमुखा उपेषतु उपगच्छतु । शत्रुसंबन्धिं गवादि धनम् अस्मान् प्राप्नोत्वित्यर्थः ॥ [इति ] सप्तमेनुवाके तृतीयं सूक्तम् ॥ 66 आयमगन्त्सविता सुरेण” इति तृचेन गोदानन्तूडांकरणयोः क्षौरा- थोंदकुम्भाभिमन्त्रणं कुर्यात् । अत्र “अदितिः श्मश्रु ” [२] इति ऋचा क्षौरार्थम् अभिमन्त्रितोदकेन माणवकस्य शिर: क्लेदयेत् । “ येनावपत् " [३] इत्यूचा वपनं कुर्यात् । तद् उक्तं संहिताविधौ "गोदानम्" प्र- क्रम्य “आयमगन्त्सविता क्षुरेण [१] इत्युदपात्रम् अनुमन्त्रयते । अदितिः श्मश्रु [२] इत्युन्दति” इत्यादि [ कौ० ७. ४] ॥ तथा उपनयनकर्मणि अस्यैव तृचम्य क्षौरार्थोदकाभिमन्त्रणे विनियो- 1S' उपेषतु.