पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ७. सू° ६८॰]२४१ षष्ठं काण्डम् । ● १४१ 66 (* 'गः । तत्रैव कर्मणि "आयमगन्" इति पादेन क्षुरं मार्जयेत् । 'उष्णेन वायो” इति पादेन उदकम् अनुमन्त्रयते । “आदित्या रुद्राः" इति पादेन माणवकस्य शिरःक्दनं कुर्यात् । सोमस्य राज्ञः" इति पादेन "येनावपत्" इत्यूचा च वपनं कुर्यात् । सूत्रितं हि । उपनयनम् आयमगन्निति मन्त्रोक्तं यत् क्षुरेण[.२.१७] इत्युक्तम्" इत्यादि [ कौ● ६] ॥ "गिरावरगराटेषु" इति तृचेन मेधाजननकाम: सुप्तोत्थितः मुखं म क्षालयेत् । “प्रातरग्निम् [३.१६] गिरावरगराटेषु [६. ६९] दिवस्पृथिव्याः [९.१] इति संहाय मुखं विमार्टि” इति [को० २.१] सूत्रात् ॥ तथा कुमारीवर्चस्यकर्मणि दधि मधु एकत्र कृत्वा अनेन तृचेन सं- पात्य अभिमन्य कुमारीं प्राशयेत् ॥ तथा क्षत्रियवर्चस्यकर्मणि दधिमधुमित्रम् ओदनम् अनेन तृचेन सं- पात्य अभिमन्य क्षत्रियं प्राशयेत् ॥ तथा वैश्यशूद्रादिवर्चस्यकर्मणि अनेन तृचेन ओदनं संपात्य अभिम- न्य वर्चस्कामं वैश्यादिं प्राशयेत् ॥ सूत्रितं हि । “प्रातरग्निम् [३.१६] गिरावरगराटेषु [ ६. ६९] दिव- 'स्पृथिव्याः [९.१] इति दधि मध्वाशयति कीलालमित्रं क्षत्रियं कीलालम् 'इतरान्" इति [ कौ० २.३] ॥ 66 तथा क्षत्रियादिवर्चस्यकर्मणि स्नातकसिंहव्याघ्रवस्तवृष्णिवृषभराज्ञां सूत्रो- तानां सप्तानाम अन्यतमस्य मर्म स्थालीपाके प्रक्षिप्य अनेन तृचेन सं- पात्य अभिमन्त्र्य बुभीयात् ॥ तथा तत्रैव कर्मणि अनेन तृचेन जलं संपात्य अभिमन्त्र्य आप्लावयेत् अवसिञ्चेद् वा ॥ तद् उक्तं संहिताविधौ । “प्रातरग्निम् [३.१६] गिरावरगराटेषु [ ६. [ “६९] दिवस्पृथिव्याः [९. १] इति सप्त मर्माणि स्थालीपाके पृक्तान्यश्ना- “ति । अकुशलं यो ब्राह्मणो लोहितम् अनीयाद् इति गार्ग्यः । उक्तो “लोममणिः । सर्वैराप्लावयति । अवसिञ्चति” इति [ कौ०२.४] ॥ 66 तथा उत्सर्जनाख्ये कर्मणि अनेन तृचेन आज्यं हुवा रसेषु संपातान्