पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू० ६.]२४१ षष्ठं काण्डम् । १४३ कृष्टज्ञानाः सन्तः । यद्वा प्रचेतसः वरुणस्य सोमस्य राज्ञश्च संबन्धिना क्षुरेण वपत लिनान् केशान् वपनेन वर्जयत ॥ द्वितीया ॥ अदि॑तिः श्मनु॑ वप॒त्वाप॑ उन्दन्तु वर्च॑सा 1 चिक॑ित्सतु प्र॒जाप॑तिर्घायु॒त्वाय॒ चक्ष॑से ॥ २ ॥ अदि॑तिः । श्म॑नु॑ । व॒तु॒ । आप॑ः । उ॒न्द॒न्तु । वर्च॑सा । चिक॑ित्सतु । प्र॒जाऽप॑तिः । दी॒र्घायु॒ऽत्वाय॑ । चक्ष॑से ॥ २ ॥ अदितिः अदीना देवमाता । सा अस्य पुरुषस्य श्मश्रु वपतु । मु- खस्य परितो वर्तमानानि रोमाणि श्मश्रूणि । तानि वपतु वर्जयतु ॥ आप: अब्देवता वर्चसा तेजसा स्वकीयेन उन्दन्तु केदयन्तु ॥ तथा [प्र- जापति: ] प्रजानां देवमनुष्यादीनां पतिः स्रष्टा चिकित्सनु भिषज्यतु । अस्मिन् संभवद्रोगादिकम् इति शेषः । कित ज्ञाने । “गु- प्तिन्किद्भ्यः सन्” । “निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यते” इति स्म- रणात् । किमर्थम् । दीर्घायुवाय । दीर्घम आयुश्विरकालजीवनम अस्य यथा स्याद् इत्येवमर्थम् । चक्षसे दर्शनाय । अविशेषात् सर्वस्य श्रे- यसे इति शेषः । * चक्षिङ् व्यक्तायां वाचि । “असनयोश्च प्रतिषे " इति स्मरणात् ख्याञादेशाभावः ॥ 66 66 तृतीया ॥ येनाव॑पत् सवि॒ता क्षुरेण॒ सोम॑स्य॒ राज्ञो वरु॑णस्य वि॒िद्वान् । तेन॑ ब्रह्माणो वपते॒दम॒स्य गोमा॒ानश्व॑वान॒यम॑स्तु॒ प्र॒जावा॑न् ॥ ३ ॥ येन॑ । अव॑पत् । स॒वि॒ता । क्षुरेण॑ । सोम॑स्य॒ । राज्ञः । वरु॑णस्य । वि॒द्वान् । तेन॑ । ब्रह्माण । वपत् । इ॒दम् । अस्य । गोऽमा॑न् । अश्व॑ऽवान् । अयम् । अ॒स्तु । प्र॒जाऽवा॑न् ॥ ३ ॥ ८ सविता देवः विद्वान् जानन सोमस्य राज्ञो वस्तुणस्य च संबन्धिना १P स्म.