पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये १४४ येन क्षुरेण अवपत् वपनं कृतवान् । या कर्मणि षष्ठी छु । सोमं राजानं वरुणं च येन क्षुरेण अवपद् इत्यर्थ: । हे ब्रह्माण: ब्राह्मणाः तेन ताशेन सुरेण अस्य पुरुषस्य इदं केशश्मश्रु वपत | तेन विशिष्ट- वपनसंस्कारेण अयं पुरुषः गोमान् बह्वीभिर्गोभिर्युक्तः अश्ववान् अश्वैर्युक्तः प्रजावान् पुत्रपौत्रादिभिर्युक्तञ्च अस्तु भवतु ॥ चतुर्थी ॥ गराव॑र॒गरा॑टेषु हिर॑ण्ये गोषु यद् यश॑ः । सुरा॑यां स॒च्यमा॑नायां क॒लाले मधु तन्मयि॑ ॥ १ गरौ । अर॒गरा॑टेषु । हिर॑ण्ये । गोषु॑ । यत् । यश॑ः । सुरा॑याम् । स॒च्यमा॑नायाम् । क॒ीलालॆ । मधु॑ । तत् । मयि॑ ॥ १ ॥ गिरौ पर्वते हिमवदादौ यद् यशः कीर्तिरस्ति । तथा अरगराटेषु रथचक्रावयवाः कीलका अराः । तान् गिरति आत्मना संश्लेषयतीति अरगरो रथः । तेन अटन्ति संचरन्तीति अरगराठाः रथिनो यशस्वि- नो राजानः । यहा अरा: अरयः तान् गच्छन्तीति अरगाः वीरा भ टा: तेषां राटा: जयघोषाः । रट परिभाषणे । भावे घञ् । व्युत्पत्त्यनवधारणाद् नावगृह्यते 1 तेषु अरगराठेषु यद् यशोस्ति हिरण्ये सुवर्णे गोषु वहनदोहनसमर्थेषु च यद् यशोस्ति जन्मयि | भ वत्वित्यर्थः । अपि च सिच्यमानायां पात्रेषु आसिव्यमानायां सुरायां की- लाले अन्ने च यद् मधु मदकरं माधुर्योपेतं रसं जनाः प्रशंसन्ति तन्म- यि भवतु ॥ पञ्चमी ॥ अविना सारघेण॑ मा मधु॑नाङ्गं शुभस्पती । यथा भग॑स्वतीं वाच॑मावदा॑नि॒ जनाँ अनु॑ ॥ २ ॥ अश्विना । सर्‌घेण॑ मा॒ मधु॑ना । अङ्क | शुभः । प इति॑ । यथा॑ । भग॒स्वती॒म् । वाच॑म् । आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥ २ ॥ !