पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू०७०.]२४३ षष्ठं काण्डम् । १४५ व्यक्ति- हे अश्विना अश्विनौ शुभस्पती शोभमानायाः सूर्यायाः शोभाहेतोरलं- कारस्य वा पती भर्तारौ मा मां सारघेण सरघा मधुमक्षिका तत्संपा- दितेन मधुना अङ्गम अभिषिञ्चतं संयोजयतम् । अजू म्लक्षणगतिषु । अस्मात् लोण्मध्यमे नसोरलोपे नान्नलोपे च कृते रू- पम् । यथा खल्वहं भर्गस्वतीम् दीप्तिमती मधुरां वाचं जनान् मनुष्यान् अनुलक्ष्य आवदामि अभिलक्ष्य उच्चारयामि । तथा मां म धुना सिञ्चतम् इत्यर्थः ॥ मयि॒ वर्चो अथो॒ यशोथो॑ य॒ज्ञस्य॒ यत् पय॑ः । तन्मयि॑ प्र॒जाप॑तिर्दे॒वि द्यार्मिव हंहतु ॥ ३ ॥ मयि॑ । वच॑ः । अथो॒ इति॑ । यश॑ः । अथो॒ इति॑ । य॒ज्ञस्य॑ । यत् । पय॑ः । । तत् । मयि॑ । प्र॒जाऽप॑तिः । दि॒वि | द्यामऽइ॑व । हुतु ॥ ३ ॥ । मयि साधके यद् वर्च: तेजोस्ति अथो अपि च यद् यशः अन्नं की तिर्वा । अपि च यज्ञस्य क्रियमाणस्य यागस्य यत् पयः सारभूतं फलं तत् सर्वे मयि यजमाने प्रजापतिः प्रजानाम् अधिपतिर्विधाता हंहनु ह- ढीकरोतु । तत्र दृष्टान्तः । दिवि अन्तरिक्षे निराधारे स्थाने द्याम् दी- प्यमानं ज्योतिर्मण्डलं यथा दृढीकृतवान् तथा हंहत्वित्यर्थः । हि वृद्धौ ॥ [इति ] षष्ठकाण्डे सप्तमेनुवाके चतुर्थ सूक्तम् ॥ 66 'यथा मांसम्" इति सूक्तेन गोवत्सयोरन्योन्यविरोधशान्तिरूपे सांम- नस्यकर्मणि वत्सं संस्त्राप्य गोमूत्रेण अवसिच्य वत्सं त्रि: परिभ्राम्य अ- भिमन्य स्तनपानार्थं मुञ्चेत् ॥ 66 तथा तत्रैव कर्मणि अनेन तृचेन गो: शिरः कर्णे च अनुमन्त्रयेत ॥ सूत्रितं हि । 'यथा मांसम् इति वननम् । वत्सं संधाव्य गोमूत्रेणा- वसिच्य त्रि: परिणीय उपचुतति | शिरः कर्णम् : अनुमन्त्रयते” इति [ कौ० ५.५] ॥