पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू०७०.]२४३ षष्ठं काण्डम् । १४७ रुषस्य वृषण्यतः वृषाणं सेक्तारम् आत्मानम् इच्छतः सुरतार्थिनो मनः मानसं स्त्रियां निहन्यते स्त्रीविषये प्रह्रीभवति । षण्यति रिषण्यति" इति क्यचि निपातितः ॐ । "दुरस्युर्द्रविणस्युर्व- एव एवम् हे अभ्ये अहन्तव्ये धेनो ते तव मनः वासे अधि उपरि नि हन्यताम् प्रवीभूतम् अस्तु । अयं वासो मांसादिवत् मनसः प्रेमास्पदं भवत्वित्यर्थः ॥ द्वितीया ॥ यथा॑ ह॒स्ती ह॑स्त॒न्याः प॒देन॑ प॒दम॑द्यु॒जे । यथा॑ पुंसो वृ॑षण्य॒त स्त्रियां नि॑िह॒न्यते॒ मन॑ः । ए॒वा ते॑ये॒ मनोधि॑ व॒त्से नि ह॑न्यताम् ॥ २ ॥ यथा॑ । ह॒स्ती । ह॒स्ति॒न्या । प॒देन॑ । प॒दम् । उ॒ऽयुजे । यथा॑ । पुंसः । वृष॒ण्य॒तः । स्त्रि॒याम् । नि॒ऽह॒न्यते॑ । मन॑ः । ए॒व । ते॒ । अ॒न्ये॒ । मन॑ः । अधि॑ । व॒त्से । नि । ह॒न्यताम् ॥ २ ॥ यथा हस्ती गजः पदेन स्वकीयेन पादेन हस्तिन्या: करेण्वाः पदम पादं प्रेम्णा उद्युजे उन्नमयति । यथा पुंस इत्यादि पूर्ववद् योज्यम् । जे इति । युजियोंगे । छान्दसो विकरणस्य लुक् । “लोपस्त आत्मने पदे[षु" इति ] तलोपः । हस्ताज्जातौ ” इति णिनिःहु ॥ 66 तृतीया ॥ यथा॑ म॒धिर्यर्थोपधिर्यथा नभ्यं प्रधावधि । यथा॑ पुंसो ं वृ॑षण्य॒त स्त्रि॒यां नि॑िह॒न्यते॒ मन॑ः । ए॒वा ते॑ये॒ मनोधि॑ व॒त्से नि ह॑न्यताम् ॥ ३ ॥ यथा॑ । प्र॒ऽधिः । यथा॑ । उपऽधिः । यथा॑ । नभ्य॑म् । प्र॒ऽधौ । अधि॑ि । । यथा॑ । पुंसः । वृष॒ण्य॒तः । स्त्रि॒याम् । नि॒ऽह॒न्यते॑ । मन॑ः । ए॒व । ते । अ॒न्ये॒ । मन॑ः । अधि॑ । व॒त्से । नि । ह॒न्य॒ताम् ॥ ३ ॥ प्रधीयत इति प्रधिः रथचक्रस्य नेमिः । [उपधि:] उप तत्समीपे धी-