पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ अथर्वसंहिताभाष्ये 66 यत इत्युपधि: नेमिसंबद्ध: अराणां संबन्धको वलयः । "उपसर्गे घो: कि: ” इति धाञः किमत्ययः ४ । यथा अधि: उपधिना संब- ध्यते । उपधिश्च यथा प्रधिना । यथा च नभ्यम् नाभये हितं रथच- क्रमध्यफलकं प्रधावधि नेमिदेशे संबभाति । . अधिः सप्तम्यर्थानु- वादी । यथा उक्तरूपा रथचक्रावयवाः परस्परं दृढसंबन्धाः हे धेनो त्वदीयं मनः वत्से [ तथा ] दृढसंबन्धम् अस्तु ॥ चतुर्थी ॥ यदन्न॒मने॑ बहुधा विरू॑षं॒ हिर॑ण्य॒मव॑मु॒त गाम॒जामवि॑म् । यदे॒व किं च॑ प्रतिज॒ग्राहम॒ग्निष्टद्धता सुर्हुतं कृणोतु ॥ १ ॥ यत् । अन्न॑म् । अनि॑ । ब॒हुऽधा । विऽरूपम् । हिर॑ण्यम् । अव॑म् । उ॒त । गाम् । अजाम् । अवि॑म । यत् । ए॒व । किम् । च । प्र॒ति॒ऽज॒ग्रह॑ । अ॒हम् । अ॒ग्निः । तत् । होता॑ । सुऽ- हु॑तम् । कृणोतु ॥ १ ॥ विरूपम् विविधाकारं यद् अन्नं बहुधा बहुप्रकारेण अझि भक्षयामि । क्षुत्पीडावशेन भोज्याभोज्यविभागम् अन्तरेण भक्षितवान् अस्मीत्यर्थः । उत अपि व हिरण्यादिकं यदेव किं च किमपि द्रव्यजातं दारिद्र्यवशाद् अहं प्रतिजग्राह प्रतिगृहीतवान् अस्मि । तत् सर्वम् अन्नं हिरण्यादि द्रव्यं च होता होमनिष्पादकः अयम् अभि: सुहुतम् सुष्ठु हुतं कृणोतु करोतु । यथा मम अन्नदोषः प्रतिग्रहदोषश्च न भवति तथा करोत्वित्यर्थः ॥ पञ्चमी ॥ . यन्मा॑ हु॒तमहु॑तमाज॒गाम॑ द॒त्तं पि॒तृभि॒रनु॑मतं मनु॑ष्यैः । यस्मा॑न्मे॒ मन॒ उदि॑व॒ रार॑जीत्य॒ग्निष्टद्धता सुहु॑तं कृणोतु ॥ २ ॥ यत् । मा॒ । हु॒तम् । अहु॑तम् । आ॒ऽज॒गाम॑ । द॒त्तम् । पि॒तृऽभिः । अनु॑ऽम- तम् । मनुष्यैः । १ A B Š P J °नु॒ष्यैः. C. °नुष्यैःf chauget to 'नृष्यैः. We witl, BDK KVP KCr.