पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू०७२.]२४५ षष्ठं काण्डम् । १४९ यस्मा॑त् । मे॒ । मन॑ । उत्ऽइ॑व । रार॑जीति । अ॒ग्निः । तत् । होता॑ । सु॒ऽहु- तम् । कृणोतु ॥ २ ॥ हुतम होमसंस्कृतम् अहुतम् तविपरीतम् उभयविधं यद् द्रव्यं मा माम् आजगाम प्रतिग्रहादिना प्राप्तम् अभूत् । कीदृशम् इति पुनर्वि- शिनष्टि | पितृभिः पितृदेवताभिः अस्मभ्यं भोगार्थ दत्तम वितीर्ण [ मनु- ष्यैः] मनुष्यजातीयैः अनुमतम् अनुज्ञातम् । यस्मात् प्रतिगृहीताद् द्र- व्याद्धेतोः मे मदीयं मनः उदिव रारजीतुं हर्षातिशयेन भृशम् उद्दीप्य- राजू दीप्तौ । अस्माद् यङ्लुगन्तात लोटि छान्दसम् उपधाहस्वत्वम् । यद्वा उत्कर्षेण भृशं रागयुक्तम् अभूद् इत्य- र्थः । हैं रज रागे । इत्यस्माद् यङ्लुगन्तात् लोटि रूपम् । अ- निष्टद् इत्यादि पूर्ववत् ॥ त इव । षष्ठी ॥ यदन्न॒मद्म्यनृ॒तेन॒ दे॒वा दा॒स्यन्नदा॑स्य॒न्नु॒त सं॑मृ॒णाम | वैश्वानरस्य॑ मह॒तो म॑हि॒म्ना शिवं मह्यं मधु॑मद॒स्त्वन॑म् ॥ ३ ॥ . यत् । अन्न॑म् । अनि । अनृ॑तेन । दे॒वाः । द॒स्यन् । अदा॑स्यन् । उ॒त । स॒मऽगृणामि॑ि । वै॒श्वा॒ान॒रस्य॑ । म॒ह॒तः । म॒हि॒म्ना। शि॒िवम् । मह्य॑म् । मधु॑ऽमत् । अ॒स्तु | अन्न॑म् ॥ ३॥ हे देवा: अनृतेन असत्यवदनेन अन्यदीयम् अपहृत्य यद् अन्नम् अद्मि भक्षयामि | उत्तमर्णाय पुनर्दास्यन् अदास्यन् पुनः प्रदानम अकरिष्यंश्च संगृणामि दास्यामीति केवलं प्रतिजानामि । संपूर्वो गृणाति: प्र- तिज्ञायां वर्तते । गृ शब्दे | पंवादित्वात् हूस्वः ४ । तत् सर्वम् अनं वैश्वानरस्य विश्वनरहितस्य महतः अतिशयितप्रभावस्य देवस्य महिम्ना माहात्म्येन मां शिवम सुखकरं मधुमत् माधुर्यवद् अस्तु भवतु ॥ सप्तमी ॥ यथा॑स॒तः म॒पय॑ते॒ वश अनु वधूंषि कृण्वन्नसु॑रस्य मा॒यया॑ । १ B घरौँ.