पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० अथर्वसंहिताभाष्ये ए॒वा ते शेप॒ सह॑सा॒ायम॒ङ्गेनाङ्गं संस॑मकं कृणोतु ॥ १ ॥ 1 यथा॑ । अ॒स॒त । प्र॒थय॑ते । वशा॑न् । अनु॑ । वसू॑षि | कृ॒ण्वन् । असु॑रस्य । माययो । एव । ते । शेर्पः । सह॑सा । अयम् । अर्कः । अङ्गेन । अङ्गम | समऽस॑म- . कम् । कृणोतु ॥ १ ॥ यथा सिंतः बद्धः पुरुषः वशान् स्ववशान् आत्मीयान् पुरुषान् अनु- लक्ष्य प्रथयते स्वात्मानं प्रसारयति । किं कुर्वन् । असुरस्य क्षेप्नुर्देवस्य मायया मायाशक्त्या वपूंषि शरीराणि कृण्वन् कुर्वन् । एव एवम् अयम् अर्कः अर्कवृक्षविकारो मणिः सहसा शीघ्रं ते त्वदीयं शेपः पुंव्यञ्जन- लक्षणम् अङ्गम अङ्गेन तद्व्यतिरिक्तेन हस्तपादादिना सम्यक् समगेम् स- मानगमनं कृणोतु करोतु । यद्वा स्त्रिया अङ्गेन योनिदेशेन समानगम- नम् । उपभोगक्षमं करोत्वित्यर्थः ॥ अष्टमी ॥ यथा॒ा पस॑स्तायाद॒द्रं वार्तेन स्थूल॒भं कृतम् । यावत् पर॑स्वतः पस॒स्ताव॑त् ते वर्धां पस॑ः ॥ २ ॥ यथा॑ । पस॑ । ता॒या॒द॒रम् । वामे॑न । स्थूल॒भम् । कृतम् । याव॑त् । पर॑स्वतः । पस॑ः । ताव॑त् । ते॒ । व॒र्धाम् । पस॑ः ॥ २ ॥ i तायोदरम तयोदरः प्राणिविशेषः तत्संबन्धि पसः पुंव्यञ्जनं वातेन वायुना यथा स्पूलभं कृतम् । स्थौल्येन भासमानं क्रियत इत्यर्थः । प- रस्वतः एतत्संज्ञस्य मृगविशेषस्य पसः पुंव्यञ्जनं यावत् यत्परिमाणविशिष्टं भवति हे साधक ते तव पसः पुंव्यञ्जनं तावत् तत्परिमाणविशिष्टं वर्धताम् ॥ नवमी ॥ vana. याव॒द॒ङ्गीनं॒ पार॑स्वतं॒ हास्तिनं गाभं च यत् । याव॒द॒श्व॑स्य वा॒जिन॒स्ताव॑त् ते वर्धतां पस॑ः ॥ ३ ॥ ३. So wia ceutate with ABBDKKRŚPPJVC. Cr. Sh १ B पर्श.