पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ. सू॰ ७३.]२४६ षष्ठं काण्डम् । १५१ या॒ाव॑तऽअङ्गीन॑म् । पार॑स्व॒तम् । हास्तिनम् । गार्दभम् । च॒ । यत् । याव॑त् । अश्व॑स्य । वा॒जिन॑ः । ताव॑त् । ते॒ । व॒र्धाम् । पस॑ः ॥ ३ ॥ . । अंङ्गीनम् अङ्गेभ्य: समुद्भूतं पारस्वतम् परस्वतः संबन्धि प्रजननं यावत् यत्परिमाणविशिष्टं भवति । तथा हास्तिनम् हस्तिसंबन्धि । गार्दभम गर्द- भसंबन्धि च प्रजननं यत् याहगाकारवद् भवति । अश्वस्य वाजिनः यौ- वनावस्पस्य वडवासंगमने यावद् भवति ते तव पसः पुंव्यञ्जनं तावत्प- रिमाणं वर्धताम् । हास्तिनम् इति । हस्तिनशब्दात् “तस्येदम् " इति अण् । “इनण्यनपत्ये” इति प्रकृतिभावः ४ ॥ 66 इति सायणार्यविरचिते अथर्ववेदार्थप्रकाशे षष्ठकाण्डे सप्तमोनुवाकः ॥ अष्टमेनुवाके पञ्च सूक्तानि । तत्र “एह यातु वरुण : ” इति प्रथमं सूक्तम् । अत्र आद्यस्य तृचस्य “सं वः पुच्यन्ताम्" इति द्वितीयस्य च सांमनस्यकर्मणि "सं जानीध्वम्” [६. ६४] इति तृचोक्तेषु उदकुम्भनि- नयनादिषु विनियोगः । सूत्रं च तत्रैवोदाहृतम् ॥ तत्र आद्यस्य तृचस्य वास्तोष्पत्यगणे पाठात् शान्त्युदकाभिमन्त्रणादौ गणप्रयुक्तो विनियोगोनुसंधेयः । सूत्रितं हि । “इहैब भुवाम [ ३.१२] “एह यातु [ ६. ७३] यमो मृत्युः [ ६. ९३] सत्यं बृहत् [१२.१] इत्यनु- “वाको वास्तोप्पत्यानि ” इति [ कौ°१.t] ॥ अत्र "इहैव " [३] इत्यनया ऋचा नवशालाप्रवेशकर्मणि उदपात्रनि- नयनानन्तरं यजमानो वाचं विसृजेत् । “यजूंषि यज्ञे [५.२६] इति न- वशालायाम्" इति प्रक्रम्य " इहैव स्त [३] इति वाचं विसृजते” इति [को० ३.६] सूचितत्वात् ॥ " तत्र प्रथमा ॥ एह या॑तु॒ वरु॑ण॒ सोमो॑ अ॒ग्निर्बृह॒स्पति॒र्व॑सु॑भि॒रेह या॑तु॒ । अस्य श्रिय॑मु॒प॒संया॑त॒ सर्व॑ उ॒ग्रस्य॑ च॒तुः संम॑नसः स॒जाताः ॥ १ ॥ १ P यवत् • २ A सम॑नसः