पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये १५४ स्परानुरागेण संसृज्यन्ताम् । पृची संपर्के । तथा मनासि शरीरान्तर्वर्तीनि अन्तःकरणानि संसृज्यन्ताम् । सम् उ । उशब्द: चार्थे । व्रता व्रतानि । कर्मनामैतत् । “शेश्छन्दसि बहुलम्" इति शे- र्लोपः । कृषिवाणिज्यादीनि कर्माणि च संसृज्यन्ताम् । अपि च ब्रह्मणस्पतिः एतत्संज्ञको वेदराशेः पालयिता अयं देवः वः युष्मान् स मजीगमत् संगतमनस्कान् करोतु । तथा भगः एतत्संज्ञो देवः वः यु- मान् समजीगमत् संगतमनस्कान् करोतु । X गमेर्ण्यन्तात् लुङि चङि रूपम् ॥ 66 पञ्चमी ॥ संज्ञप॑नं वो मन॒सोथो॑ सं॒ज्ञप॑नं॒ हृदः । अथो॒ भग॑स्य॒ यच्छ्रान्तं तेन॒ संज्ञपयामि वः ॥ २ ॥ सम्ऽज्ञप॑नम् । वः॑ । मन॑सः । अथो॒ो इति॑ । स॒ऽज्ञप॑नम् । हृदः । अथो॒ इति॑ । भग॑स्य । यत् । श्रान्तम् । तेन॑ । सम॑ऽज्ञेपयामि । वः ॥ २ ॥ । सं- 66 हे सांमनस्यकामाः वः युष्माकं मनसः ज्ञानसाधनस्य इन्द्रियस्य संज्ञप- नम् सम्यग्ज्ञानजननम् । येन कर्मणा भवति तत् कर्म करोमीत्यर्थः । जानानान् प्रयुङ्ग इत्यस्मिन्नर्थे " हेतुमति च” इति णिच् । ततः पुकि 'मारणतोषणनिशामनेषु ज्ञा" इति मित्त्वात् “मितां ह्रस्वः” इति हू- स्वत्वम् । “नन्दिग्रहिपचादिभ्यः” इति ल्युप्रत्ययः । अथो अपि च हृदः हृदयस्य मनसोपि आधारभूतस्य संज्ञपनम् समानज्ञानजननं करोमि ॥ अथो अपि च भगस्य एतत्संज्ञस्य सौभाग्यकरस्य देवस्य य च्छ्रान्तम् श्रमजनितं तपोस्ति । ४ श्राम्यत्यस्मिन्निति श्रान्तम् । अ धिकरणे क्तः । “यस्य विभाषा" कृति इट्प्रतिषेधः । 'अनुनासिकस्य इति दीर्घत्वम् । तेन श्रमजनिततपसा व: युष्मान् सांमनस्यकामान संज्ञपयामि समानज्ञानान् करोमि ॥ ८८ किझलो: ०" १ P सम् | झपयामि | We with Cral P, the ter of which, however, somewhat inaccurately has सम् । शेपयामि for सम्पयामि Jore read सम्पयामि whicli in las corrented into संभ | स॒पयामि॒ 1S' समज्ञान', 20 'तोरण'. 33 oits 'म्.