पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ अथर्वसंहिताभाष्ये तथा रात्रिस्वस्त्ययनकामः एतं चतुर्ऋचं जपिता मादेशेन मुखं वि- माय स्वप्यात् ॥ तथा देशान्तरं जिगमिषुः स्वप्रयोजनसिद्ध्यर्थं सुप्तोत्थित एतं चतुर्ऋचं जपन् त्रीणि पदानि प्रक्रम्य उद्दिष्टं देशं गच्छेत् ॥ तत्रैव कर्मणि भूमौ त्रीन मादेशान् मिला गच्छेत् ॥ सूत्रितं हि । “य एनं परिषीदन्तीति यदायुधं दण्डेन व्याख्यातम् । 'दिष्ट्या मुखं विमाय संविशति । त्रीणि पदानि प्रमायोत्तिष्ठति तिस्रो “दिष्टीः” इति [कौ° ७. १] ॥ तत्र प्रथमा || 66 निर॒मुं नु॑द॒ ओक॑सः स॒पत्तो॒ यः पृ॑त॒न्यति॑ । नैर्बाध्ये॒न ह॒विषेन्द्र॑ ए॒नं॒ परा॑शरीत् ॥ १ ॥ निः । अ॒मु॒म् । नु॒दे॒ । ओक॑सः । स॒ऽपत्न॑ः । यः । घृ॒त॒न्यति॑ । नै॒ऽब॒ध्ये॒न । ह॒विषा॑ । इन्द्र॑ । ए॒न॒म् । परा॑ । अ॒शरीत् ॥ १ ॥

अमुं शत्रुम् ओकसः स्वनिवासस्थानाद् निनुदे निर्गमयामि । मन्त्र- सामर्थेन स्वस्थानात् प्रच्यावयामीत्यर्थः । कः पुनरसौ इत्याह । य: स- पत्न: शत्रुः पृतन्यति अस्मान् बाधितुं पृतनां सेनाम आत्मन इच्छ- ति । * “कप्य॑ध्वरपृतनस्यचि लोपः” इति क्यचि पृतनाशब्दस्य अ- न्तलोपः । निर्नोदनप्रकारम् आह नैर्बाध्येनेति । निःशेषेण बाधो निर्बाधः तम् अर्हतीति निर्वाध्यो हन्तव्यः शत्रुः तद्विषये मयुज्यमानं ह- वि: नैर्बाध्यम् । “तस्येदम” इति अण् । निर्बाधनक्षमेण हविषा आज्यादिना हूयमानेन परितुष्ट इन्द्रः एनं शत्रु पराशरीत परा- शृणातु । यथा न पुनरावर्तते तथा पराङ्मुखं हिनस्तु इत्यर्थः । हिंसायाम् । अस्मात् “इन्दसि लुङ्लङ्लिट: " इति प्रार्थनायां लुङ् ॥ द्वितीया ॥ 66 " परमां तं प॑रा॒वत॒मिन्द्रौ नुदनु वृत्र॒हा । १ PJ वाध्येनं. We with PCr. 1 No S as often.