पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् | यतो॒ न पुन॒राय॑ति शश्व॒तीभ्यः॒ समा॑भ्यः ॥ २ ॥ परमाम् । तम् । परा॒ऽवत॑म् । इन्द्र॑ । नु॒द॒तु । वृ॒त्रऽहा 1 यत॑ः । न । पुन॑ः । आ॒ऽअय॑ति । श॒श्व॒भ्य॑ । समा॑भ्यः ॥ २ ॥ [अ० ८. सू०७५.]२४t १५७ वृत्रहा वृत्रम् असुरं हतवान् इन्द्रः तं शत्रुं परमां परावतम् । परा- वत् इति दूरनाम | अतिशयितदूरदेशं नुदनु मेरयतु । तं दूरदेशं विशि- नष्टि । यतः यस्माद् दूरात् प्रणुत्तः शत्रुः शश्वतीभ्यः समाभ्य: बहुसं- वत्सरकालादपि न पुनरायति पुनर्नावर्तते । तादृशम् अत्यन्तदूरं [ देशं ] शत्रुं गमयत्वित्यर्थः । परावतम् इति । “उपसर्गाच्छन्दसि धात्वर्थे" इति वतिः ॥ तृतीया ॥ एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जना॒ अति॑ । एतु॑ ति॒स्रोति॑ रोच॒ना यतो॒ न पुन॒राय॑त शश्वतीभ्यः॒ समा॑भ्यो॒ यावत् सूर्यो अस॑द् दि॒वि ॥ ३ ॥ एतु॑ । ति॒स्रः । प॒रा॒ऽवत॑ः । एतु॑ । पञ्च॑ | जना॑न् । अति । ए॒तु॑ । ति॒स्रः । अति॑ । रोच॒ना । यत॑ः । न । पुन॑ः । आ॒ऽअय॑ति । शश्व॒भ्य॑ । समा॑भ्यः । याव॑त् । सूर्य॑ः । अस॑त् । दि॒वि ॥ ३ ॥ 66 t इन्द्रेण नुन्नः अस्मच्छत्रुः परावतः दूरवर्तिनी: तिस्रो भूमी: अत्येतु अतिक्रम्य गच्छतु । “त्रयो वा इमें त्रिवृतो लोका: " [ ऐ॰ब्रा०२,१७] इति वाक्यशेषात् “ तिस्रो भूमीर्धारयन्” इति [ऋ०२.२७.६] मन्त्र- वर्णाच्च तिस्रः परावत इत्युक्तम् । तथा पञ्च जनान् । निषादपञ्चमाञ्च- वारो वर्णाः पञ्चजनाः । तान् अत्येतु । मनुष्यसंचारदेशं विहाय दूरं गच्छत्वित्यर्थः । तथा तिस्रः त्रिसंख्याका रोचना: सूर्यचन्द्राग्नीनां रोच- माना: प्रभा अत्येतु अतिक्रम्य गच्छतु । सूर्यादीनां प्रभा यत्र न सन्ति तं देशं गच्छत्वित्यर्थः । 2 रुच दीप्नौ । अनुदात्तेतश्च हलादे: ' 66 " a We read this mantra as १ BBDK SC जनां अति॑ि We with AKR V. dyvavasha with all orr Vaidikas and Mss.