पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ अथर्वसंहिताभाष्ये तथा रात्रिस्वस्त्ययनकाम: एतं चतुर्ऋचं जपित्वा प्रादेशेन मुखं वि माय स्वप्यात् ॥ तथा देशान्तरं जिगमिषुः स्वप्रयोजनसिद्ध्यर्थं सुप्नोत्थित एतं चतुर्ऋचं जपन त्रीणि पदानि मक्रम्य उद्दिष्टं देशं गच्छेत् || तत्रैव कर्मणि भूमौ त्रीन् मादेशान् मिला गच्छेत् ॥ सूत्रितं हि । “य एनं परिषीदन्तीति यदायुधं दण्डेन व्याख्यातम् । "दिष्ट्या मुखं विमाय संविशति । त्रीणि पदानि प्रमायोत्तिष्ठति तिस्रो “दिष्टी: ” इति [ कौ॰७.१] ॥ तत्र प्रथमा ॥ निर॒र्मु नु॑द॒ ओक॑सः स॒पत्नो॒ यः पृ॑त॒न्यति॑ । नैर्बाध्ये॒न ह॒विषेन्द्र॑ एनं॒ परा॑शरीत् ॥ १ ॥ निः । अ॒मुम् । नु॒दे॒ । ओक॑सः । स॒ऽपत्न॑ । यः । घृ॒त॒न्यति॑ । नै॒ऽव॒ध्येन । ह॒विषा॑ । इन्द्र॑ । ए॒न॒म् । परा॑ । अ॒शरीत् ॥ १ ॥

ति । अमुं शत्रुम् ओकसः स्वनिवासस्थानाद् निर्बुदे निर्गमयामि । मन्त्र- सामर्थ्येन स्वस्थानात मच्यावयामीत्यर्थः । कः पुनरसौ इत्याह । य: स- पत्नः शत्रु: पृतन्यति अस्मान् बाधितुं पृतनां सेनाम् आत्मन इच्छ- ॐ, “कप्य॑ध्वरपृतनस्यचि लोपः” इति क्यचि पृतनाशब्दस्य अ- न्तलोपः । निनोंदनप्रकारम् आह नैर्बाध्येनेति । निःशेषेण बाधो निर्बाधः तम् अर्हतीति निर्बाध्यो हन्तव्यः शत्रु: तद्विषये प्रयुज्यमानं ह- वि: नैर्बाध्यम | “तस्येदम्” इति अण् । निर्वाधनामेण हविषा आज्यादिना हूयमानेन परितुष्ट इन्द्रः एनं शत्रु पराशरीत परा- शृणातु । यथा न पुनरावर्तते तथा पराङ्मुखं हिनस्तु इत्यर्थः । हिंसायाम् । अस्मात् “इन्दसि लुङ्लङ्लिट : ” इति प्रार्थनायां लुङ् ॥ द्वितीया || 14 परमां तं प॑रावत॒मिन्द्रौ नु॒दत्तु वृत्र॒हा । "" १ PJ वाध्येनं. Wwith PC.. 1 So S' as often