पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । यतो॒ न पुन॒राय॑ति॒ शश्व॒तीभ्यः॒ समा॑भ्यः ॥ २ ॥ पर॒माम् । तम् । प॒राऽवत॑म् । इन्द्र॑ । नु॒द॒तु॒ । वृ॒त्र॒ऽहा । यत॑ः । न । पुन॑ः । आऽअय॑ति । शश्वतीभ्यः॑ । समा॑भ्यः ॥ २ ॥ [अ०. सू०७५.]२४ १५७ वृत्रहा वृत्रम् असुरं हतवान् इन्द्रः तं शत्रुं परमां परावतम् । परा- वत् इति दूरनाम | अतिशयितदूरदेशं नुदतु प्रेरयतु । तं दूरदेशं विशि- नष्टि । यतः यस्माद् दूरात् प्रणुत्तः शत्रुः शश्वतीभ्य: समाभ्य: बहुसं- वत्सरकालादपि न पुनरायति पुनर्नावर्तते । तादृशम् अत्यन्तदूरं [ देशं ] शत्रुं गमयत्वित्यर्थः परावतम् इति । “उपसर्गाच्छन्दसि धात्वर्थे इति वतिः ॥ "9 तृतीया || एतु पञ्च जनाँ अति॑ि । एनु॑ ति॒िस्रोति॑ रोच॒ना यतो॒ न पुन॒राय॑त एतु॑ ति॒स्रः प॑रा॒वत शश्वतीभ्यः॒ समा॑भ्यो॒ो यावत् सूर्यो अस॑द् दि॒वि ॥ ३ ॥ एनु॑ । ति॒स्रः । परा॒वत॑ः । एतु॑ । पञ्च॑ । जना॑न् । अति॑ि । एतु॑ । ति॒स्रः । अति॑ । रोच॒ना । यत॑ः । न । पुन॑ः । आ॒ऽअय॑ति । शश्व॒भ्य॑ । समा॑भ्यः । याव॑त् । सूर्य॑ः । अस॑त् । दि॒वि ॥ ३ ॥ इन्द्रेण नुन्नः अम्मलत्रुः परावतः दूरवर्तिनी तिस्रो भूमी: अत्येतु अतिक्रम्य गच्छतु । “त्रयो वा इमें त्रिवृतो लोका: " [ ऐ० बा०२.१७] इति वाक्यशेषात् “तिस्रो भूमीर्धारयन्” इति [ऋ०२.२७.७] मन्त्र- वर्णाच्च तिस्रः परावत इत्युक्तम् । तथा पञ्च जनान् । निषादपञ्चमाञ्च वारो वर्णाः पञ्चजनाः । तान् अत्येतु | मनुष्यसंचारदेशं विहाय दूरं गच्छत्वित्यर्थः । तथा तिस्रः त्रिसंख्याका रोचना: सूर्यचन्द्राग्नीनां रोच- माना: प्रभा अत्येतु अतिक्रम्य गच्छतु । सूर्यादीनां प्रभा यत्र न सन्ति नं देशं गच्छत्वित्यर्थः । ॐ रुच दीप्तौ । अनुदात्तेतश्च हलादे: " 66 We read this mantra as १ BBDK SC जनां अतिं. We with AKRV. dhyavasina with all or VVaidikas and MSS.