पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ अथवसंहिताभाष्ये इति युच् । यतो न पुनरायतीत्यादि व्याख्यातम् । उक्त काल बहुत्वं विशिनष्टि यावत् सूर्य इति । यावाकालपर्यन्तं दिवि धुलोके सूर्यः सर्वस्य प्रेरक आदित्यः असत् भवेत् । * अस्तेलेंटि अडागमः । ता- वत्कालपर्यन्तं शत्रुः पुनर्नावर्तताम् इत्यर्थः ॥ चतुर्थी ॥ य ए॑नं॒ परि॒षीद॑न्ति समा॒दध॑ति॒ चक्ष॑से । स॑मे॒धो॑ अ॒ग्निजि॒ह्वाभि॒रुदे॑तु॒ हृद॑या॒दधि॑ ॥ १ ॥ ये । ए॒न॒म् । प॒रि॒ऽसीद॑न्ति । स॒म्ऽआ॒दध॑ति । चक्ष॑से । स॒म्ऽमेव॑ः । अ॒ग्निः । जि॒ह्वाभः । उत् । ए॒तु | हृद॑यात् । अधि॑ि ॥ १ ॥ एनं स्वस्त्ययनकामं ये रक्षः प्रभृतयो हिंसका: परिषीदन्ति हिंसितुं प- रित उपविशन्ति ततः चक्षसे हिंसायै समादधति समाहिताः संनद्धा भ वन्ति । ॐ नृचक्षा राक्षस: इतिवत् चष्टिरत्र हिंसाकर्मा । तस्माद् असुनि “असनयोश्च” इति ख्याञादेशाभावः । यद्वा एनम् अ- मिं परिचरितुं ये जना: पर्युपविशन्ति चक्षसे दर्शनाय समादधति इ- ध्मप्रक्षेपेण प्रज्वलयन्ति । तैः संमेद्धः प्रकर्षेण संदीपितोनि: स्वकीयाभि- जिह्वाभिः सह हृद्रयादधि अस्मदीयाहृदयाद् उदेतु उद्गच्छतु । उत्पद्य- ताम् इत्यर्थः । “अहं त्वद् अस्मि मद् असि त्वम् एतत् । ममासि . योनिस्तव योनिरस्मि" इति हि निगमः [तै० ब्रा० १.२.१.२०] । यद्वा पर्युपविशतां रक्षः प्रभृतीनां हृदयात् संप्रवृद्धोग्नि: उदेतु । तान प्रदग्धुम इत्यर्थः ॥ पञ्चमी ॥ . अ॒ग्नेः सो॑तप॒नस्या॒ाह॒मायु॑षे पदमा र॑भे । अतिर्य॑स्य॒ पश्य॑ति धूममु॒द्यन्त॑मास्य॒तः ॥ २ ॥ अ॒ग्नेः । स॒ऽन॒प॒नस्य॑ । अ॒हम् । आयु॑षे प॒दम् । आ । रभे । अ॒द्धाति । यस्य॑ । पश्य॑ति । धूमम् | उ॒त्ऽयन्त॑म् । आ॒स्य॒तः ॥ २ ॥ १ P °यत॑म्.