पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ४. सू° ७६.]२४९ षष्ठं काण्डम् । १५९ सांतपनस्य अत्यर्थ तपनं संतपनम् तत्संबन्धिनः अग्ने पदम् स्थानं तहाचिपदात्मकं शब्दम् वा आयुषे जीवनाय अहम् आ रभे उपक्रमे । यस्याग्नेः आस्यत: आस्याद् मुखाद् उद्यन्तम् उद्गच्छन्तं धूमम् अद्धा- तिः । अड्डा प्रत्यक्षम् अतति सततं ध्यानेन प्राप्नोतीति अद्धातिः एत- संज्ञो महर्षिः पश्यति साक्षात्करोति । यद्वा यस्याग्नेधूमं तपःप्रभावात स्वस्माद् आस्याद् उद्गच्छन्तं पश्यति तादृशस्याग्ने पदम् इति संबन्धः ॥ षष्ठी ॥ यो अ॑स्य स॒मिधं वेद॑ क्षत्रिये॑ण समाहिताम् । नाभि॑ह्य॒ारे प॒दं नि द॑धाति॒ स मृ॒त्यवे॑ ॥ ३ ॥ यः । अ॒स्य॒ । स॒म्ऽइध॑म् । वेद॑ । स॒त्रिये॑ण । स॒म्ऽआहि॑ताम् । न । अ॒भि॒ऽह्वारे । प॒दम् । नि । द॒धा॒ाति॒ । सः । मृ॒त्यवे॑ ॥ ३ ॥ क्षत्रियेण क्षत्रजातीयेन विजयकामेन पुंसा समाहिताम् सम्यग् आहितां क्षिप्ताम् अस्य अग्नेः समिधम् संदीपनीम् आहुतिं यः पुरुषो वेद जा- नाति स वेदिता मृत्यवे मृत्युं गन्तुम् अभिह्वारे अभितः कुटिले मृत्यु - प्राप्तिनिमित्ते गंजव्याघ्रादिभूयिष्ठे स्थाने पदं न नि दधाति न निक्षिप ति । इत्थं वेदितुर्मरणशङ्कापि नैवोदेतीत्यर्थः ॥ सप्तमी ॥ नैनं घ्नन्ति पर्यायिणो न सन्त्राँ अवं गच्छति । अग्ने॒र्यः क्षत्रियो॑ वि॒द्वान्नामं गृह्णात्यायु॑षे ॥ ४ ॥ न । एनम् । नन्ति । परि॒ऽआ॒यिन॑: । न । सन्नान् । अव॑ । गच्छति । अ॒ग्नेः । यः । दा॒त्रिय॑ः । वि॒द्वान् । नाम॑ । गृह्णाति॒ | आयु॑षे ॥ ४ ॥ एनं स्वस्ययनकामं पर्यायिणः परित आगन्तार: शत्रवो न घ्नन्ति न हिंसन्ति । [सन्नान्] समीपस्थानपि तान् अयं नावगच्छति नावबुध्यते । १ BK R S स॒म्न अव॑. We with ADKV C. 1 S' राचव्या for गजव्या.