पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू०७७.]२५० षष्ठं काण्डम् । १६१ अस्या॑त् । द्यौः । अस्या॑त् । पृथि॒वी । अस्या॑त् । विश्व॑म् । इ॒दम् । जग॑त् । आ॒ऽस्पाने॑ । पर्व॑ताः । अ॒स्थुः । स्थान्न । अश्वा॑न् । अ॒ति॒ष्ठपम ॥ १ ॥ नियन्तुरीश्वरस्य आज्ञया यथा द्यौरस्थात अप्रचलिता स्वस्थाने तिष्ठति । पृथिव्यपि यथा अस्थात् निश्चलं तिष्ठति । तयोर्द्यावापृथिव्योर्मध्ये वर्तमानं विश्वम् सर्वम् इदं जगत् स्वे स्वे स्थाने अस्थात् तिष्ठति । पर्वता मेरु- मन्दरादयोपि आस्थाने ईश्वरेण कल्पिते स्थाने अस्युः तिष्ठन्ति । एवमेव हे योषित् स्थानि । तिष्ठत्यस्मिन् गृहं सर्वम् इति स्थामा स्थूणा | आ- तो मनिन्” इति मनिन् प्रत्यय: xX । तत्र वाम् अतिष्ठिपम् ब- न्धनेन स्थापयामि । अश्वान् इति लुप्तोपमम् । यथा दुष्टान् अश्वान सादिनो रज्जुभिर्बघ्नन्ति तद्वत् । यहा स्पान्नि स्थाने गृहे अश्वानिव त्वाम् अनेन कर्मणा स्थापयामि । तिष्ठतेर्ण्यन्ताच्छान्दसे लुङि चङि 'तिष्ठतेरित" इति इत्त्वम् ॥ द्वितीया ॥ य उ॒दान॑ट् प॒राय॑णं य उ॒दान॒ण्न्याय॑नम् । आवर्तनं नि॒िवर्तनं यो गोपा अ॑पि॒ तं हु॑वे ॥ २ ॥ यः । उ॒ऽआन॑ट् । प॒रा॒ऽअय॑नम् । यः । उ॒त्ऽआन॑ट् । नि॒ऽअय॑नम् । आऽवर्तनम् । निऽवते॑नम् । यः । गोपाः । अपि॑ । तम् । हुवे॒ ॥ २ ॥ 99 यो देवः परायणम् पराङ्मुखगमनम् उदानद् उत्कर्षेण व्याप्नोति । तथा न्ययनम् नितरां नीचीनं वा गमनं यो देवः उदानद् उत्कर्षेण व्याप्नोति । नशतिर्व्याप्तिकर्मा । अस्मात् छान्दसे लुङि “मन्त्रे घस” इति लेर्लुक् । “छन्दस्यपि दृश्यते' इति आडागमः । षत्वष्टु- त्वे । यश्च देवः गोपाः गोपायिता पलायमानानाम् आवर्तनम् आगमनं निवर्तनम् गतिप्रतिरोधं च कर्तुं शक्नोति । अपि: संभावना- याम् । इत्थं संभाव्यमानं तं देवं हुवे आह्वयामि । "बहुलं छ- न्दसि ” इति ह्वयतेः संप्रसारणम् ॥ १ A अ॑प॒. २ CP अर्यन° changed to °आयन. २१