पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये तृतीया ॥ जात॑वेद॒ो नि व॑र्तय शतं ते॑ सन्त्वा॒ावृत॑ः । स॒हस्रं त उप॒ावृत॒स्ताभि॑र्नः पुन॒रा कृ॑धि ॥ ३ ॥ जात॑ऽवेदः । नि । व॒र्तय | शतम् । ते । सन्तु । आ॒ऽवृत॑ः । 1 । स॒हस्र॑म । ते॒ । उ॒प॒ऽआ॒वृत॑ः । ताः । नः॒ । पुन॑ः । आ । कृधि॒ ॥ ३ ॥ हे जातवेदः जातानां वेदितः अग्ने पलायनशीलाम इमां स्त्रियं नि- वर्तय पलायनात प्रच्यावय | गृहे स्थापयेत्यर्थः । ते तव आवृतः आ- वर्तनोपायाः शतम् शतसंख्याका: अस्मिन् विषये सन्तु भवन्तु तथा सहस्रम् सहस्रसंख्याकाः ते त्वदीया उपावृतः समीपदेशप्रात्युपाया: सन्तु भवन्तु । ताभिरावृद्धिः उपावृद्धिश्च नः अस्माकम् इमां स्त्रियं पुनरा कृधि अभिमुखीं कुरु ॥ १६२ चतुर्थी ॥ तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑य पुन॑ः । जा॒या॑ याम॑स्मा॒ आवा॑क्षुस्तां रसैना॒भि व॑र्धताम् ॥ १॥ तेन॑ । भू॒तेन॑ । ह॒विषा॑ । अ॒यम् । आ । प्या॒य॒ताम् । पुन॑ । जायाम् । याम् । अ॒स्मै । आ॒ऽअवा॑क्षुः । ताम् । रसैन । अ॒भि । वर्धताम् ॥ १ ॥ मात्रादयः । तेन प्रसिद्धेन भूतेन समृद्धिकरेण हूयमानेन हविषा अयं पतिः पुन- रा प्यायताम् । पुनःपुन: प्रजापश्वादिभिः समृद्धो भवतु | अस्मै पत्ये यां स्त्रियं जायाम आवाक्षुः जायावेन समीपम् आनयिषु। विवाहकर्तार; पितृ- 2. वह प्रापणे । लुङि सिचि “एकाच उपदेशेनुदात्तात्” इति इमतिषेधः । तां जायां रसेन दधिमधुघृतादिना अभि वर्ध- ताम् अयं हूयमानोग्निरभिवर्धयतु । "" इन्दस्युभयथा" इति शप आर्धधातुकत्वात् “णेरनिटि " इति णिलोपः ॥ 6: पञ्चमी ॥ अ॒भि वर्धां पय॑साभिं राष्ट्रेण॑ वर्धताम् ।