पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । र॒य्या स॒हस्र॑वर्चसे॒मौ स्ता॑मनु॑पक्षितौ ॥ २ ॥ अभि । वर्धताम् । पय॑सा । अ॒भि । राष्ट्रेण॑ । वर्धताम् । र॒या । स॒हस्र॑ऽवर्चसा | इ॒मौ । स्तम् । अनु॑पक्षितौ ॥ २ ॥ पूर्वमन्त्रोक्त एवार्थ: अनया विवियते । अयं वरो वधूश्च पयसा क्षीरे- ण अभि वर्धताम् । गोभिः समृध्यताम् इत्यर्थः ॥ तथा राष्ट्रेण अभि वर्धताम् । ग्रामादिसमृद्धिर्भवत्वित्यर्थः ॥ सहस्रवर्चसा अपरिमिततेजसा रय्या धनेन इमौ जायापती अनुपक्षितौ अनुपक्षीणौ संपूर्णकामौ स्ताम भवताम् ॥ X अस्तेलोटि तसस्तामादेशे “नसोरल्लोपः" इति अ- कारलोपः ॥ [अ॰ ४. सू° ७६.]२५१ १६३ 66 षष्ठी ॥ त्वष्टा॑ जा॒याम॑जनय॒त् त्वष्टा॑स्यै॒ त्वा॑ पति॑म् । त्वष्टा॑ स॒हस्रमायु॑धि दीर्घमायु॑ः कृणोतुं वाम् ॥ ३ ॥ त्वष्ट । जा॒याम् । अ॒जनय॒त् । त्वष्टा॑ । अ॒स्यै॒ । त्वाम् । पार्तम् । त्वष्टा॑ । स॒हस्र॑म् । आयु॑षि । दी॒र्घम् । आयु॑ः । कृ॒णो॒तु । वाम् ॥ ३ ॥ . विष्टा तनूकर्ता शिल्पकारी एतत्संज्ञो देव: जायाम स्त्रियम् अजनयत् उ- दपादयत । जायतेस्याम् अपत्यरूपेण पतिरिति जायां । श्रूयते हि । 'तज्जाया जाया भवति यद् अस्यां जायते पुनः” इति [ऐ० ब्रा० ७.१३] । ईहक्सामथ्र्योंपेतं स्त्रीजन्म कृतवान् इत्यर्थ: । हे वर अस्यै अस्या जा यायास्त्वां पतिम् भर्तारं त्वष्ठैव अजनयत् । स्त्रीपुंससृष्टेस्वष्ठैव कर्तव्यर्थः । श्रूयते हि तैत्तिरीयकें । 'त्वष्टा वै पशूनां मिथुनानां प्रजनयिता" इति [तै० सं० २. १. ६. ४ ] । यस्माद् एवं तस्मात् हे जायापती वां युवयोः त्वष्टा देवः सहस्रसंवत्सरपरिमितानि आयूंषि एवमात्मकं दीर्घम् आयु: कृ- णोतु करोतु ।. *कृवि हिंसाकरणयोश्च । 'धिन्विकृण्व्योर च" इ- ति उप्रत्ययः । “ युष्मदस्मदो: पष्ठीचतुर्थीद्वितीयास्थयो: " इति युष्मदो 66 १ SO BBrÊDKKR SPPJVCr. Only A lus स्ताम: C तामनु'rted into स्तामनु॰ २D Ś Cs °मायु॑ष्कृणो'. We with ABBKKR V.