पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ अथर्वसंहिताभाष्ये 66 वाम् आदेशः । स च "अनुदात्तं सर्वम् अपादादौ” इत्यनुवृत्तेरनु दात्तः ॥ [ इति ] अष्टमेनुवाके तृतीयं सूक्तम् ॥ 66 “अयं नो नभसस्पतिः” इति तृचेन धान्यस्फातिकामः अश्मानं सं- प्रोक्ष्य अभिमन्य कुसूलादिधान्यनिधानस्थानेषु निधाय तस्योपरि अन्वृचं तिस्रो धान्यमुष्टीनिंदध्यात् । सूत्रितं हि । अयं नो नभसस्पतिरिति 'पल्येऽश्मानं संमोक्ष्य अन्वृचं काशीन ओप्य आवापयति" इति [ कौ● ३.४] ॥ 66 'अन्तरिक्षेण पतति इति तृचेन काककपोतश्येनादिपक्षिहतम् अङ्गं श्वपदस्थानमृत्तिकाम अभिमन्य प्रलिम्पेत् ॥ तथा तत्रैव कर्मणि शुनोङ्गस्था मक्षिका अनेन अभिमत्य अग्नौ प्र- क्षिप्य तथाविधम् अङ्गं धूपयेत् ॥ “अन्तरिक्षेण [इति ] पक्षह॒तम् अङ्गं मन्त्रोक्तमृत्तिकया । कीटेन धूपय- ति' इति सूत्रात् [ कौ°४.७] ॥ >> तत्र प्रथमा || अयं नो नर्भसस्पतिः संस्फानो अभि र॑क्षतु । अस॑मा॒ाति॑ गृ॒हेषु॑ नः ॥ १ ॥ अ॒यम् । नः॒ । नभ॑सः । पति॑ः । स॒म॒ऽस्फान॑ः । अ॒भि । रक्षतु । अस॑मातम् । गृहेषु॑ । नः॒ ॥ १ ॥ 66 अयं परिदृश्यमानोग्नि: नभसः धुलोकस्य पति: हवि:मदानादिना पा- लयिता । यद्धा नभ इति आदित्यनाम । अग्निस्तस्यापि आहुतिद्वारा पालयिता । अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते” इति स्मृतेः [म° स्मृ॰ ३.७६] । ईदृशोग्निः संस्फानः धान्यराशेर्वर्धयिता सन् नः अस्मान् अभि रक्षतु । तथा नः अस्माकं गृहेषु असमातिम् । मा माने इत्यस्माद् औणादिकस्तिप्रत्ययः ४ । मातिर्मानं परिच्छेदस्तेन 1. So S. Kausika : ॰पक्षहतं मन्त्रोक्तं चङ्गमया &c. Sayana's version is based upon Kesava's explanation