पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ४. सू° ७९.]२५२ षष्ठं काण्डम् । १६५ ८८ सह वर्तत इति समाति: तवैपरीत्यम् असमाति: । कुसूलस्थानां धान्याना परिच्छेदराहित्यं करोतु इत्यर्थ: । अस्य तृचस्य क्रमाद् अग्निवाय्वादित्यप- रत्वं तैत्तिरीयब्राह्मणाद् अवगन्तव्यम् । तत्र हि एवम् आम्नायते । अ- “यं नो नभसा पुर इत्याह । अग्निर्वै नभसा पुरः | अग्निमेव तद् आह "एतन्मे गोपायेति । स त्वं नो नभसस्पत इत्याह । वायुर्वै नभसस्पतिः । 'वायुमेव तद् आह एतन्मे गोपायेति । देव संस्फानेत्याह । असौ वा “आदित्यो देवः संस्फान: । आदित्यमेव तद् आह एतन्मे गोपायेति " इति [ तै० सं० ३.३.८.६] ॥ द्वितीया ॥ त्वं नो॑नो॒ नभसस्पत॒ ऊर्ज॑ गृ॒हेषु॑ धारय । आ पु॒ष्टमे॒त्वा वसु॑ ॥ २ ॥ त्वम् । नः॒ः । न॒भसः । पते॒ । ऊर्ज॑म् । गृ॒हेषु॑ । धा॒य॒ । आ। पुष्टम् । एतु । आ । वसु॑ ॥ २ ॥ हे नभसस्पते अन्तरिक्षस्य पालयितर्वायो त्वं नः अस्माकं गृहेषु ऊ- र्जम् बलकरं रसवद् अन्नं धारय स्थापय ॥ तथा पुष्टम् प्रजापश्वादि- कम ऐतु आगच्छतु । वसु धनं च ऐतु आगच्छतु ॥ तृतीया ॥ देव॑ संस्फान सहस्रायो॒षस्ये॑शिषे । तस्य॑ नो रा॒स्व॒ तस्य॑ नो धेहि॒ तस्य॑ ते भक्ति॒वांस॑ः स्याम ॥ ३ ॥ देव॑ । स॒मऽस्फान॒ । सह॒स्रऽप॒ोषस्य॑ । ईशिषे । तस्य॑ । नः॒ । रा॒स्व॒ । तस्य॑ । नः॒ । धे॒हि॒ । तस्य॑ । ते॒ । अ॒क्ति॒ऽवा॑स॑ः । स्या॒ाम् ॥३॥ हे देव दानादिगुणयुक्त हे संस्फान प्रवृद्ध एवंभूत हे आदित्य सह- स्रपोषस्य सहस्रसंख्याकानां प्रजानां पोषकस्य बहुलस्य धनस्य त्वम् ई- शिषे ईश्वरो भवसि । ईश ऐश्वर्ये । अदादित्वात् शपो लुक् । 'ईश: से” इति इडागमः । “अधीगर्थदयेशाम इति कर्मणि ष- 66 99