पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये तस्य तथाविधस्य धनस्य । इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । स्मभ्यं रास्व प्रयच्छ । रा दाने । १६६ “क्रियाग्रहणं कर्तव्यम " तथाविधं धनं नः अ- यहा भागपदाध्याहारेण योज्यम् ॥ तथा तस्य धनुस्य भागं नः अस्माकं धेहि भोगार्थं धारय पोषय वा । ते त्वदीयस्य तस्य धनस्य भक्तिवांसः भागवन्तस्त्वत्प्रसादात् स्याम भवेम । भक्तिशब्दान “ छन्दसीवनिपौ” इति मत्वर्थीयो वनिप् । सकारोपजनश्वान्दसः ॐ ॥ चतुर्थी || अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ भू॒ताव॒चाक॑शत् । शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥ १ ॥ । अ॒न्तरि॑क्षेण । प॑त॒ति॒ । विश्वा॑ । भू॒ता । अव॒ऽचाक॑शत् । शुन॑ः । दि॒व्यस्य॑ । यत् । मह॑ः । तेन॑ । ते॒ । ह॒विषा॑ । वि॒धेम॒ ॥ १ ॥ । । अन्तरिक्षेण आकाशमार्गेण काककपोतादि: पक्षी पतति पुरुषस्य अङ्गे निपतति । किं कुर्वन् । विश्वा विश्वानि सर्वाणि भूता भूतानि भूतजाता- नि अवचाकशत् । * [ अवचाकशत् ] पश्यतिकर्मा ४ । जिघत्स- या पुनःपुनः पश्यन् । तदोषशान्त्यर्थं दिव्यस्य दिवि भवस्य शुनः यत् महः तेजोस्ति तेन हविषा हे असे ते त्वां विधेम परिचरेम । आन्तरिक्ष- पक्ष्युपघातजं दोषं दिव्यस्य शुनो महसा तुष्टोग्निर्निवर्तयतु इत्यर्थः ॥ पञ्चमी ॥ • ये त्रय॑ः कालकाजा दि॒वि दे॒वा इ॑व श्रृताः । तान्त्सर्वानह्व ऊ॒तये॒स्मा अ॑रि॒ष्टता॑तये ॥ २ ॥ ये । त्रय॑ः । काल॒का॒ञ्जाः । दि॒वि । दे॒वाःऽ ।। तान् । सर्वान् । अ॒ह्वे॑ । ऊ॒तये॑ । अ॒स्मै । अ॒रि॒ष्टता॑तये ॥ २ ॥ कालकाजाख्या ये त्रयः असुराः सत्कर्मवशाद् दिवि देवा इव श्रिताः १ P पर्नति We with PJCr. ...... । S आंतरिक्ष्य