पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०. सू°४१.]२५४ षष्ठं काण्डम् । १६७ आश्रित वर्तन्ते । तथा च तैत्तिरीयकम् । “कालकञ्जा वै नामासुरा आसन् । ते सुवर्गाय लोकायाग्निम् अचिन्वत" इति प्रक्रम्य "इष्टकाम आवृहत् । तेवाकीर्यन्त । येवाकीर्यन्त त ऊर्णनाभयोभवन् " डावुद पतताम् । तौ दिव्यौ श्वानावभवताम्" इति [तै० प्रा० १.१.२. तान् तथाविधान सर्वान् कालकाञ्जान अह्वे आह्वयामि । तेश्छान्दसे लुङि “लिपिसिचिह्नश्च ” इति लेः अङ् आदेशः मर्थम् आह्वानम् । ऊतये रक्षणार्थम् अस्मै अस्य पुरुषस्य । छ्यर्थे चतुर्थी । " । अरिष्टतातये । रिष्टं हिंसा तदभावः अरिष्टम् । तस्य 66 स इन्द्र ह्वय- कि- करणाय काककपोतादिपट्युपघातजनितदोषशान्तये इत्यर्थः । "शि- वशमरिष्टस्य करे” इति अरिष्टशव्दात् करोत्यर्थे तातिल् प्रत्ययः । “लि- ति" इति प्रत्ययात् पूर्वस्य उदात्तत्वम् || अ॒प्तु ते॒ जन्म॑ दि॒वि ते॑ स॒धस्ये॑ समु॒द्रे अ॒न्तम॑हि॒मा ते॑पृथि॒व्याम् । शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥ ३ ॥ । अ॒प्ऽसु॒ । ते॒ । जन्म॑ । दि॒वि । ते॒ । स॒धऽस्य॑म् । स॒मु॒द्रे । अ॒न्तः । म॒हि॒मा । ते । पृथिव्याम् । शुन॑ः । दि॒व्यस्य॑ । यत् । मह॑ः । तेन॑ ते॒ | ह॒विषय॑ । वि॒धेम ॥ ३ ॥ 1 66 हे अग्ने ते तव अप्सु उदकेषु जन्म और्ववैद्युतादिरूपेण दृश्यते । दि- वि द्युलोके ते तव आदित्यात्मन: सधस्थम् सहस्थानम् । तथा समुद्रे अन्त: मध्ये पृथिव्यां च ते तव महिमा माहात्म्यं दृश्यते । “दिवस्परि "प्रथमं जज्ञे अग्निरस्मद् द्वितीयं परि जातवेदाः । तृतीयम् अप्सु नृमणा "अजस्रम्” इति हि मन्त्रान्तरम् [ऋ० १०.४५.१] । शुनो दिव्यस्य इत्यादि व्याख्यातम् ॥ [ इत्यष्टमेनुवाके ] चतुर्थ सूक्तम् ॥ 'यन्तासि” इति तृचेन गर्भाधाने कङ्कणादिकं संपात्य अभिमन्त्र्य स्त्रिया हस्ते बभीयात् । “यन्तासीति मन्त्रोक्तं बनाति" इति सूत्रात् [कौ० ४.११] ॥