पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये आगच्छतः " इति तृचेन विवाहकाम: इन्द्रं यजते उपतिष्ठते वा । आगच्छत इति जायाकाम: " इति [ कौ०७.१०] सूत्रात् ॥ तथा विवाहे अनेन तृचेन आज्यं हुवा वरवध्वोर्मूर्ध्नि संपातान् आ- नयेत् । “आगच्छतः [६. ४२] सविता प्रसवानाम [५.२४] इति मूर्योः संपातान् आनयति" इति [ कौ०१०. ४] सूत्रम् ॥ १६ 66 66 तत्र प्रथमा ॥ य॒न्तासि॒ यच्छ॑से॒ हस्ता॒वय॒ रक्ष॑सि सेधसि । प्र॒ज धनं॑ च गृह्णानः प॑रिह॒स्तो अ॑भूद॒यम् ॥ १ ॥ य॒न्ता । अ॒सि॒ि । यच्छ॑से । हस्तौ । अप॑ । रक्ष॑सि । सेधः॑सि । प्र॒ऽजाम् । धन॑म् । च॒ । गृह्णानः । परि॒िऽह॒स्तः । अ॒भूत् । अयम् ॥ १ ॥ हे असे त्वं यन्तासि गर्भव्यापत्कराणां रक्षःप्रभृतीनां नियामको भव- सि । अत एव आत्मीयौ हस्तौ यच्छसे आयतौ प्रसारयसि । ताभ्यां हस्ताभ्यां रक्षांसि गर्भधारणविघातकानि अप सेधसि अपगमयसि । प्र- जाम पुत्रादिरूपां तोगार्थं धनं च कृण्वानः कुर्वाण: अयम् अग्निः परिहस्तः हस्तं परिवेष्ट्य वर्तमानः रक्षाकरः प्रतिसरः अभूत् ॥ द्वितीया ॥ परि॑ह॒स्त॒ वि धारय॒ योनि॒ गर्भोय॒ धात॑वे । मयो॑दे पु॒त्रमा धे॑हि॒ तं त्वा गमागमे ॥ २ ॥ परिऽहस्त । वि । धारय । योनि॑म् । गर्भाय । धात॑वे । । मयो॑दे । पु॒त्रम् । आ । धे॒ह । तम्। त्वम् । आ । गमय । आ॒ऽगमे ॥ २ ॥ हे परिहस्त कङ्कणादिरूप प्रतिसर योनिम् गर्भाशयस्थानं वि धारय विवृतम् अवस्थापय । किमर्थम् । गर्भाय धातवे गर्भ धातुं धारयि- नुम् ।

  • “क्रियाग्रहणं कर्तव्यम्” इति कर्मणः संप्रदानवाञ्चतुर्थी ।

धाञस्तुमर्थे तवेन् प्रत्ययः । मर्यादे मर्याः मरणधर्माणो मनुष्याः तैरादीयमाने स्वोत्पत्त्यर्थं स्वीक्रियमाणे स्थाने गर्भाशये हे जाये त्वं पुत्रम ] S' 'नयतेति. We with Kansite.