पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०. सू°४२.]२५५ षष्ठं काण्डम् । १६९ आ धेहि अभिमुखं धारय । यह्वा हे मर्यादे मर्येण मनुष्येण स्वभोगार्थम् आदीयमाने । जायायाः संबोधनम् । हे जाये त्वं पत्युर्मम आगमे आ गमने सति तम् अभीष्टं पुत्रम् आ गमय । उत्पादयेत्यर्थः ॥ तृतीया ॥ यं प॑रिह॒स्तमवि॑भि॒रदि॑तिः पुत्रकाम्या | त्वष्टा॒ तम॑स्य॒ आ व॑द् यथा॑ पु॒त्रं जना॒दति॑ ॥ ३ ॥ यम् । प॒रि॒ऽह॒स्तम् । अवि॑भः । अदि॑ितिः । पुत्र॒ऽका॒ाम्या । त्वष्टा॑ । तम् । अ॒स्यै॒ । आ । ब॒भू॒त् । यथा॑ । पु॒त्रम् । जना॑त् । इति॑ ॥ ३ ॥ अदिति: देवमाता पुत्रकाम्या पुत्रम् आत्मन इच्छन्ती यं परिहस्तम् ह- स्तं परिवेष्ट्य वर्तमानं कङ्कणादिरूपं प्रतिसरम् अबिभः धृतवती । त्रशब्दात कर्मण इच्छार्थे “काम्यच्च" इति काम्यच् | [ “सनाद्यन्ता: " इति ] धातुसंज्ञायां पचाद्यच् । अविभरिति । डुभृञ् धारणपोषणयोः । अस्मात् लङि “हल्ड्या" इत्यादिना तिलोपे "भृञाम इत्" इति अभ्यासस्य इत्त्वम् । तं तथाविधं प्रतिसरम् अस्यै अस्या जाया- याः । ॐ षष्ठ्यर्थे चतुर्थी । त्वष्टा आ बभ्रात् आवभातु । य- था येन प्रकारेण एषा पुत्रं जनात् जनयेत् इति अनेन अभिप्रायेण । त्वष्टा बभातु इति संबन्धः । * जनात् इति । जनेर्ण्यन्तात् लेटि छन्दस्युभयथा" इति आर्धधानुकत्वात् णिलोषः ॥ चतुर्थी | 66 आडागमः । आगच्छि॑ज॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः । इन्द्र॑स्य॒ वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ शतक्र॑तोः ॥ १ ॥ आ॒ऽगच्छ॑तः । आऽग॑तस्य । नाम॑ । गृह्णामि॒ । आ॒ऽय॒तः । इन्द्र॑श्य । वृत्र॒ऽघ्नः । व॒न्वे॒ । वा॒स॒वस्य॑ । श॒तऽक्र॑तो ॥ १ ॥ आगच्छतः वर्तमानागमनस्य आगतस्य अस्मदन्तिकं प्राप्तस्य इन्द्रस्य नाम प्रीतिकरं वृत्रहादिनामधेयं गृह्णामि उच्चारयामि: आयतः नियतोहं 1S' प्रतीकरं.