पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये विवाहकामः । यहा आयत इत्यपि षष्ठी उत्तरवाक्ये संबध्यते । आयतः आगच्छतः वृत्रघ्नः वृत्रं हतवतः इन्द्रस्य वासवस्य वसुभिरुपास्यमानस्य शतक्रतो । X वर्णविकारश्वान्दसःहु । शतं ऋतवः कर्माणि वी- र्यप्रख्यापकानि वृत्रवधादीनि यस्य स तथोक्तः . * सर्वत्र कर्मणि षष्ठी | एवंविधम् इन्द्रं वन्वे अहम् अभिमतफलं याचामि । नु याचने । तनादित्वाद् उपत्ययः ॥ पञ्चमी ॥ १७० 66 . येम॑ सूर्या॑ सवि॒त्रीम॒श्विनो॒हतु॑ः प॒था । तेन॒ माम॑ब्रवी॒द् भगो॑ जा॒यामा व॑हताति॑ ॥ २ ॥ येन॑ । सूर्याम् । सा॒वि॒त्रीम् । अ॒श्विना॑ । ऊ॒हतु॑ः । प॒था । तेन॑ । माम् । अब्रवीत् । भग॑ः । जा॒याम् । आ । व॒ह॒ात् । इति॑ ॥ २ ॥ । येन पथा अध्वना अश्विना अश्विनौ एतत्संज्ञौ देवी सावित्रीम् स वितुः पुत्रीं सूर्याख्यां स्त्रियम् ऊहतुः ऊढवन्तौ । विवाहकर्मणा जायावेन लब्धवन्तौ इत्यर्थः । तद्विवाहमकारश्च दाशतय्यां "सत्येनोत्तभिता इति सूक्ते [ ऋ० १०.४५] मपञ्चितः । ऐतरेयकब्राह्मणे च 'प्रजापति सोमाय 'राज्ञे दुहितरं प्रायच्छत सूर्या सावित्रीम् । तस्यै सर्वे देवा वरा आग- च्छन् । तस्या एतत् सहस्रं वहतुम् अन्वाकरोत् । तद् एतद् आश्वि- “नम् इत्याचक्षते” इत्यादिना प्रतिपादितः [ ऐ० ब्रा० ४.७] ॥ भस्य टेलोपः हनुरिति । वह प्रापणे इत्यस्मात् लिटि यजादित्वात्संप्रसारणविर्वचनादि- कार्ये रूपम् । पथेति । पथिन्शब्दात् तृतीयैकवचने इति टिलोपे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । जायाम भार्याम् आ वहतात् आवह आनयेति भगो देवः मां विवा- हार्थिनं प्रत्यब्रवीत् । विवाहोपायम उपदिष्टवान इत्यर्थः ॥ तेन पथा 66 66 षष्ठी ॥ यस्तैङ्कुश व॑सु॒दानो॑ बृ॒हन्नन्द्र हिर॒ण्यय॑ । तेना॑ जनीयते जायां माँ धेहि शचीपते ॥ ३ ॥ . 29 ""