पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ९. सू° ४३.]२५६ षष्ठं काण्डम् । यः । ते॒ । अ॒ङ्कुशः । व॒सु॒ऽदान॑ः । बृहन् । इ॒न्द्र॒ । हि॒र॒ण्यय॑ः । तेन॑ । जनि॒ऽय॒ते । जा॒याम् । महा॑म् । धे॒हि॒ । शचीऽपते ॥ ३ ॥ हे इन्द्र ते तव योङ्कुश: अङ्कुशवद् आकर्षको हस्तः वसुधनः वसू- नि धनानि धीयन्ते धार्यन्ते अस्मिन्निति वसुधानः । X अधिकरणे युट् । अत एव बृहन् महान् हिरण्ययः हिरण्मयः अत्र हिर- ण्यमचुरः । ४ “ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि " इ- ति हिरण्यशब्दान्मयटि निपात्यते । एवंविधो यो हस्तः अङ्कुश एव वा तेन साधनेन हे शचीपते शचीदेव्याः पते इन्द्र जनीयते । जा- यन्तेस्याम् अपत्यानीति जनिर्जाया । ताम् आत्मन इच्छते । यहा पुत्रे- णोत्पत्तिर्जनिः तत्कामाय मह्यं जायाम् भार्या धेहि देहि प्रयच्छ ॥ पञ्चमं सूक्तम् ॥ 66 १७१ इति सायणार्यविरचिते अथर्वसंहिताभाष्ये षष्ठकाण्डे अष्टमोनुवाकः ॥ "" नवमेनुवाके पञ्च सूतानि । “अपचित: ” [इति ] प्रथमं सूक्तम् । “अपचितः इति तृचेन गण्डमालाभैषज्यकर्मणि शङ्खं घृष्ट्वा अ- भिमन्त्र्य शुनकलालां वा अभिमन्त्र्य गण्डमालां प्रलिम्पेत् ॥ तथा तत्रैव कर्मणि अनेन तृचेन जलूकां गृहगोधिकां वा अभिमन्य रुधिरमोक्षार्थ गण्डमालास्थाने संश्लेषयेत् ॥ तथा तत्रैव कर्मणि सैन्धवलवणं चूर्णयित्वा अभिमन्य गण्डमालाया विकीर्य तूष्णीं निष्ठीवेत् ॥ सूत्रितं हि । “अपचित: [ ६. ३] आ सुस्रसः [७.४०] इति किंस्त्या- दीनि लोहितलवणं संक्षुद्य अभिनिष्ठीवति" इति [कौ०४.७] ॥ तत्रैव कर्मणि "ग्लौरितः म पतिष्यति" इत्यर्धर्च जपन् गोमूत्रेण गण्डं मर्दयेत् प्रक्षालपेद् वा ॥ तथा अनेनैव दन्तमलम् अभिमन्त्र्य गण्डमालां प्रलिम्पेत ॥ 'ग्लौरित्यर्धर्चेन” इति [ कौ०४.७] सूत्रात् ॥ 1S धीयते. 2S' संहृद्य for संक्षुद्य which we with Kausika.