पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०९. सू°४४.]२५७ षष्ठं काण्डम् । १७५ चतुर्थी | हे व्रणरोगाभिमानिन् देव त्वं स्वाम् स्वकीयाम आहुतिं म नसा जुषाण: सेवमानो वीहि भक्षय | स्वाहा वाहुतम् इदं हविरस्तु । अहमपि मनसैव यद् इदं हविर्जुहोमि हे रोगाभिमानिनि पापदेवते य- स्यास्ते तव घोरे क्रूरे आसनि आस्ये जुहोमि हविः प्रक्षिपामि सा त्वं मनसा हूयमानं तद्धविः सेवस्वेत्यर्थः । किमर्थम् । एषां व्रणरोगजनि- तानां बॅन्धानाम् अवसर्जनाय विमोचनार्थम् । कम् इति पदपूरणः । यहा कम इति उदकनाम । व्रणप्रक्षालनार्थम् इदम् औषधोदकम् त- द्रोगशान्तये अवकल्पत इत्यर्थः ॥ पञ्चमी । हे व्रणाभिमानिदेवते त्वा त्वां जनाः जन्ममात्रसारा विशेष- ज्ञानरहिता: प्राणिनः भूमिः पृथिवीति अभिप्रमन्वते अभितः प्रबुध्य- न्ते । मनु अवबोधने । अहं तु त्वत्स्वरूपं जानानः त्वा त्वां निऋतिरिति । सर्वरोगनिदानभूता पापदेवता निरृतिः | सैवेति स- र्वतः सर्वस्माद्धेतोः परि वेद परितो जानामि । हे भूते सर्वत्र विद्यमा- ने निरृतिरूपे हविष्मती भव अस्माभिर्दत्तेन हविषा आज्यादिना युक्ता भव । एष ते तव भागः | यः अस्मासु इदानीं परिकल्पितः । अनेन हविर्भागेन तुष्टा इमान् समीपस्थान गवादीन् अमून् दूरस्थान् अस्मद- दृष्टिगोचरान एनस: रोगनिदानभूतात् पापाद् मुञ्च विसृज स्वाहा इदं हविः स्वाहुतम् अस्तु ॥ षष्ठी ॥ ए॒वो ष्व॑स्मन्नि॑रृतेने॒हा त्वम॑य॒स्मान् वि च॑ता बन्धपाशान् । य॒मो मह्यं पुन॒रित् त्वा॑ द॑ददा॑ति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥ ३ ॥ ए॒वो इति॑ । सु । अ॒स्मत् । ऋ॒ते । अने॒हा । त्वम् । अ॒य॒स्मया॑न् । वि । । बन्धऽपाशान् । चूत य॒मः । मह्य॑म् । पुन॑ः । इत् । त्वाम् । दाति॒ । तस्मै॑ । य॒मय॑ । नम॑ः । अ- स्तु॒ । मृ॒यवे॑ ॥ ३ ॥ १ B प्व॑स्म° R च्वास्म) AK वास्म We with D K SC : 1 $' निरूप