पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ९. सू°४५. ]२५६ षष्ठं काण्डम् । वर॒णः । वारयातै । अ॒यम् । दे॒वः । वन॒स्पति॑ः । यक्ष्म॑ः । यः । अ॒स्मि॑िन् । आऽवि॑िष्टः । तम् । ऊं इति॑ । दे॒वाः । अवीवरन् ॥ १॥ अयं पुरोवत देवः दानादिगुणयुक्त: [वरण:] वरणाख्यो वनस्पतिः व- नानाम् अधिपतिवृक्षः । X विकारे प्रकृतिशब्दः ४ । वरणवृक्षनि- मितो मणिः वारयातै राजयक्ष्मादिरोगं वारयतु निवर्तयतु । यतेलेंटि आडागमः । “वैतोन्यत्र” इति ऐकारः ॥ वार- अस्मिन् पुरुषे यो यम: रोग आविष्टः प्रविष्टः तमु | उशब्द : अप्यथें । तं सर्वमपि रोगं देवा इन्द्रादयः सर्वे अवीवरन् वारयन्तु । वारयतेश्छन्दसे लुङि चङि रूपम् ॥ D द्वितीया || इन्द्र॑स्य॒ वच॑सा व॒यं मि॒त्रस्य॒ वरु॑णस्य च । दे॒वानां॒ सर्वेषां वा॒ाचा यक्ष्म॑ ते वारंयामहे ॥ २ ॥ १७७ । इन्द्र॑स्य । वच॑सा । व॒यम् । मि॒त्रस्य॑ | वरु॑णस्य । च । दे॒वाना॑म् । सर्वे॑षाम् । वा॒ाचा । यक्ष्म॑म् । ते॒ । वारयामहे ॥ २ ॥ मणिबन्धनकर्तारो वयम् हे व्याधित ते तव यक्ष्मम् रोगम् इन्द्रस्य देवानाम् अधिपते: वचसा आज्ञारूपेण वाक्येन वारयामहे निवारयामः । न केवलम् इन्द्रस्य वचसा | मित्रस्य वरुणस्य च अन्येषामपि सर्वेषा देवानां वाचा वाक्येन त्वंदीयं रोगं निवारयामः ॥ तृतीया ॥ यथा॑ वृत्र इ॒मा आप॑स्त॒स्तम्भ॑ विश्व॑धा॒ यतीः । ए॒वा अ॒ग्नि वैश्वानरेण॑ वारये ॥ ३ ॥ यथा॑ । वृ॒त्रः । इ॒माः । आप॑ः । त॒स्तम्भ॑ । वि॒श्वधा॑ । य॒तीः । ए॒व । ते॒ । अ॒ग्निना॑ । यक्ष्म॑म् । वैश्वा॒न॒रेण॑ । वा॒रये॒ ॥ ३ ॥ यथा येन प्रकारेण वृत्र: आवरणशीलस्त्वष्टपुत्रोसुरः इमाः परिदृश्य- १ So all our MSS and Vaidikas.