पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ अथर्वसंहिताभाष्ये माना विश्वधायनी विश्वस्य कृत्स्त्रस्य स्थावरजङ्गमात्मकस्य जगतः पो- षयित्री: आपः मेघस्था व्यापनशीला अपः तस्तम्भ निरुद्धगतीश्चका- &ष्टभि स्कभि गतिप्रतिबन्धे । हे व्याधित ते तव य- क्ष्मम् रोगम् एव एवं वैश्वानरेण विश्वनरहितेन सर्वप्राणिहितकारिणा अग्निना वारये निवारयामि ॥ चतुर्थी ॥ वृषेन्द्र॑स्य॒ वृषा॑ दि॒वो वृषा॑ पृथि॒व्या अ॒यम् । वृषा॒ विश्व॑स्य भू॒तस्य॒ त्वमे॑ककृ॒षो भ॑व ॥ १ ॥ वृषा॑ । इन्द्र॑स्य । वृषा॑ । दि॒वः । वृषा॑ । पृ॑थि॒व्याः । अ॒यम् । वृषा॑ । विश्व॑स्य । भू॒तस्य॑ । त्वम् । एक॒ऽवृषः । भव॒ ॥ १ ॥ अयं त्रैष्ठ्यकामः पुरुषः इन्द्रस्य प्रसादाद् वृषा सेचनसमर्थ : श्रेष्ठो भवतु । यद्वा हवि:प्रदानादिना उपजीव्यः सन् इन्द्रस्यापि श्रेष्ठो भवत्ति- त्यर्थः । दिवः धुलोकस्य वृषा कामानां वर्षिता श्रेष्ठो भवतु | पृथिव्या अपि वृषा आहुतिद्वारा वृष्टेरुत्पादयिता सन् अयं श्रेष्ठो भवतु । ॐ दिव इति । " ऊडिदम्" इत्यादिना विभक्तेरुदात्तत्वम् । पृथिव्या इति । प्रथनात् पृथिवी । “यद् अप्रथयत् तत् पृथिव्यै पृथिवित्वम्” इति श्रु- तेः [ तै० ब्रा॰ १. १.३.७] । प्रथ मख्याने । प्रथेः षिवन् [सं]प्रसारणं च [उ°१,१४t]। “षिनौरादिभ्यश्च ” इति ङीष् । “उदात्तयणो ह- लपूर्वात्" इति विभक्तेरुदात्तत्वम् । किं बहुना द्यावापृथिव्युपल- क्षितस्य विश्वस्य भूतस्य सर्वस्यापि माणिजातस्य वृषा सेचनसमर्थः उत्कृ- ष्टो भवतु || पर: प्रत्यक्षकृतः । हे श्रैष्ठ्यकाम पुरुष उदीरितरीत्या म एकवृषो भव । यथा गोयूथमध्ये प्रधानभूतो वृषभ: सर्वश्रेष्ठो वर्तते एवं सर्वोत्कृष्टो भवेत्यर्थः ॥ 66 -> पञ्चमी ॥ स॒मु॒द्र ईशे स॒वता॑म॒ग्निः पृ॑थि॒व्या व॒शी । चन्द्रमा नक्षत्राणामीशे त्वमे॑कवृषो भ॑व ॥ २ ॥