पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । स॒मु॒द्रः । ईशे॒ । त्रि॒वता॑म । अ॒ग्निः । पृथि॒व्याः । व॒शी । च॒न्द्रमा॑ । नक्ष॑त्राणाम् । ईशे । त्वम् । एकऽवृषः । भव ॥ २ ॥ [अ० ९. सू° ८७.]२६० X ईश ऐश्वर्ये । पृथिव्याः भू- स्रवताम् प्रवहताम् उदकानां समुद्रः अधि: ईशे ईष्टे । लोपस्त आत्मनेपदेषु ” इति तलोपः । म्या अग्निर्वशी वशयिता स्वामी । नक्षत्राणाम अश्विन्यादीनां चन्द्रमा ईशे ईष्टे । यथा एतेषां समुद्रादीनां स्वस्वविषयाधिपत्यम् अव्याहतम् ए- वम् हे श्रेष्ठ्यकाम तम् एकवृषो भवेति संबन्धः ॥ षष्ठी ॥ स॒म्राह॒स्यसु॑राणां क॒कुन्म॑नु॒ष्याणाम् । दे॒वाना॑मर्धभाग॑सि॒ त्वमे॑कवृषो भ॑व ॥ ३ ॥ 66 १७९ स॒म्ऽराट् । अ॒सि॒ । असु॑राणाम् । क॒कुत् । मनुष्याणाम् । दे॒वाना॑म् । अर्ध॒ऽभाक् । अ॒सि॒ । त्वम् । एकऽवृषः । भव ॥ ३ ॥ हे इन्द्र त्वम् असुराणाम् सुरविरोधिनां दानवानां सम्राट् सम्यग् रा- जमान: ईश्वरोसि भवसि । तद्वद् अयं श्रैष्ठ्यकामो मनुष्याणाम मनोर- पत्यानां सर्वप्राणिनां ककुत् वृषभस्य ककुदिव उन्नतो भवतु ॥ तथा हे इन्द्र त्वं देवानाम् अर्धभाग् असि । अर्धशब्दः समप्रविभागवचनः । अन्ये सर्वे देवा एको भाग: इन्द्र एको भागः । सर्वदेवप्रतिनिधिर्भवसी- त्यर्थः । तथा च तैत्तिरीयकम् । “यत् सर्वेषाम् अर्धम् इन्द्रः प्रति त स्माद् इन्द्रो देवतानां भूयिष्ठभाक्तम: ” इति [ तै° सं॰ ५, ४. ८.३] । ई- दृशस्य इन्द्रस्य प्रसादात हे श्रेष्ठ्यकाम त्वम् इन्द्रवद् एकवृषो भव ॥ [ इति नवमेनुवाके ] द्वितीयं सूक्तम् ॥ 66 आ वाहार्षम् ”[ ६. ८७] “भुवा द्यौः” [ ६.०७ ] इति तृचाभ्यां स्थैर्यकामो राजा इन्द्रं यजते उपतिष्ठते वा । आ त्वाहा धुवा द्यौ- रिति धौव्यकाभः [ कौ० ७.१०] इति सूत्रात् ॥ >> तथा भूमिकम्पलक्षणोत्पातप्रायश्चित्तार्थम् आभ्याम् तृचाभ्याम् आज्यं 1S' ईश्वरो भवसि.