पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ अथर्वसंहिताभाष्ये स्मिन् राष्ट्रे ध्रुवम् स्थिरं प्रच्युतिरहितम् अदीधरत् धारितवान् । प्रतिष्ठा- पितवान् इत्यर्थः । तस्मै राज्ञे सोमो राजा अधि ब्रवत् अस्मदीयोयम् इति अधिकं ब्रवीतु । अयं च ब्रह्मणस्पतिः वेदराशेः पालयिता देव: अ- धि ब्रवीतु । “षष्ठ्याः पतिपुत्र॰" इति विसर्जनीयस्य सत्वम् ॥ चतुर्थी ॥ भुवा द्यौर्भुवा पृ॑थि॒वी ध्रुवं विश्व॑मिदं जग॑त् । ध्रुवासः पर्वता इ॒मे ध्रुवो राजा॑ वि॒शाम॒यम् ॥ १ ॥ ध्रुवा । द्यौः । भुवा । पृथि॒वी । भुवम् । विश्व॑म् । इ॒दम् । जग॑त् । भुवास॑ः । पर्व॑ताः । इ॒मे । ध्रुवः । राजा॑ । वि॒शाम् । अ॒यम् ॥ १ ॥ यथा द्यौः भुवा स्थिरा वर्तते । पृथिवी च यथा भुवा निश्चला ह श्यते । द्यावापृथिव्योर्मध्ये वर्तमानम् इदं विश्वम् सर्व जगत् ध्रुवम् स्थिरं दृश्यते । तत्रत्या इमे परिदृश्यमानाः पर्वता यथा ध्रुवासः भुवाः स्थि- Y “आज्जसेरसुक्” । तथा अयं विशाम् प्रजानां रा राः । जा ध्रुवः स्थिरो भवतु ॥ पञ्चमी ॥ ध्रुवं ते॒ राजा॒ वरु॑णो ध्रुव॑ दे॒वो बृह॒स्पति॑ । भुषं त॒ इन्द्र॑श्व॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रुवम् ॥ २ ॥ ध्रु॒वम् । ते॒ । राजा॑ । वरु॑णः । भुवम् । दे॒वः । बृह॒स्पति॑ः । ध्रु॒वम् । ते॒ । इन्द्र॑ । च॒ । अ॒ग्निः । च । राष्ट्रम | धारयताम् । ध्रुवम् ॥ २ ॥ ● - हे राजन् ते तव राज्यं राजा राजमान ईश्वरो वरुण: ध्रुवम स्थिरं करोतु । देवः द्योतमानो बृहस्पति देवमन्त्री त्वदीयं राष्ट्रं भुवं करो- बृहतां देवानां पतिर्बृहस्पतिः । “तहतो: करपत्योः ०" इति सुट्तलोपौ । “उभे वनस्पत्यादिषु" इति उभयपदप्रकृतिस्वरृत्वम् । था ते त्वदीयं राष्ट्रम इन्द्रश्च अग्निश्च भुवम् स्थिरं धारयताम् । प्रत्ये- कापेक्षया ध्रुवशब्दस्यावृत्तिः ॥ त-