पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ अथर्वसंहिताभाष्ये पञ्चमी ॥ यास्तै शतं धमनयोङ्गान्यनु विष्ठिताः । तास ते॒ सर्वा॑सः॑ व॒यं निर्विषाणि ह्वयामसि ॥ २ ॥ याः । ते॒ । श॒तम् । ध॒मन॑यः । अङ्गोनि । अनु॑ । विऽस्थिताः । - तासा॑म् । ते॒ । सर्वा॑साम् । व॒यम् । निः । वि॒षाणि॑ । व॒या॒म॒सि॒ ॥ २ ॥ हे शूलरोगिन् ते तव अङ्गानि अनु हस्तपादाद्यवयवाननु याः [शतम्] शतसंख्याका धमनयः नाड्यो विष्ठिता: विविधम् अवस्थिताः ते त्वदी- यानां तासां सर्वासां धमनीनां निर्विषाणि विषरहितानि भैषज्यानि शू- लनिबर्हणानि [वयं ] ह्वयामसि ह्वयामः संपादयामः ॥ षष्ठी || नम॑स्ते रुद्रास्य॑ते॒ नमः प्रति॑िहितायै । नमो॑ विसृज्यमा॑नायै॒ नमो॒ निप॑तितायै ॥ ३ ॥ नर्मः । ते । रुद्र । अस्य॑ते । नर्मः । प्रति॑िऽहितायै । । नम॑ः । वि॒ऽसृज्यमा॑नायै । नम॑ः । नऽप॑ततायै ॥ ३ ॥ । हे रुद्र रोदयितर्देव अस्यते व्याधिरूपाम् इषुं क्षिपते ते तुभ्यं न- मोस्तु । 3 " नमः स्वस्ति" इति चतुर्थी । तथा प्रतिहितायै धनुषि संहितायै वदीयेषवे नमोस्तु । विसृज्यमानायै धनुषः सकाशात् प्रेर्यमाणायै तस्यै नमोस्तु । विसर्जनानन्तरं लक्ष्ये निपतितायै तस्यै न- मोस्तु । इत्थं रुद्रस्य तदायुधस्य च विविधावस्थस्य नमस्कारेण तत्कृत- पीडाभावः प्रार्थितः ॥ [ इति ] नवमेनुवाके चतुर्थ सूक्रम् ॥ “इमं यवम्" इति तृचेन सर्वरोगभैषज्यार्थम् अर्धर्चेनार्धर्चेन आज्यं हुवा सयवे केवले वा उदपात्रे चतुरः संपातान् हौ पृथिव्याम् आनीय संपातितमृत्सहितोदकेन तृचाभिमन्त्रितेन व्याधितम् आसावयेत् ॥ तथा तत्रैव कर्मणि अनेन तृचेन यवमणि संपात्य अभिमन्य बनीयात् ॥