पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ९. सू° ९१ . ]२६४ षष्ठं काण्डम् । १७७ सूत्रितं हि । “दिवे स्वाहा [५.९] इमं यवम् [ ६. ९१] इति चतुर 'उदपात्रे संपातान् आनयति । द्वौ पृथिव्याम् | तो प्रत्याहत्यालावयति न सयवे चोत्तरेण यवं बभाति" इति [ कौ°४.४] ॥ 66 “वातरंहाः” इति तृचेन अश्वशान्तौ आज्यं हुवा उदपात्रे संपातान् आनीय तेनोदकेन सूत्रोक्तरीत्या अश्वम् आचामयेत् आत्मावयेच्च । तद् उक्तं संहिताविधौ । “वातरंहा इति स्नातेऽश्वे संपातान् अभ्यति नयति । पलाशे सचूर्णे चोत्तरान् । आचामयति । आप्लावयति ” इति [ कौ● ५ ] ॥ तत्र प्रथमा ॥ इमं यव॑मष्टायोगैः प॑ड्योगेभि॑िरचर्कृषुः । तेना॑ ते तन्वाई रपौपाचीनर्मप॑ व्यंये ॥ १ ॥ इ॒मम् । यव॑म् । अ॒ष्टाऽयो॒ोगैः । ष॒ऽयो॒ोगेभि॑ः । अ॒च॒कृ॒षुः । तेन॑ । ते॒ । त॒न्वः । रप॑ः । अ॒पा॒चीन॑म् । अप॑ । व्य॒ये॒ ॥ १ ॥ इमं भैषज्याय प्रयुज्यमानं यवम् दीर्घशूकं धान्यम् अष्टायोगैः अष्ट- भिर्बलीवदैर्युज्यमाना हला अष्टायोगाः । [पड्योगेभिः] पर्युज्यमानाः षड्योगाः । इत्थं महर्हिः अचरृषुः कर्षणं कृतवन्तः । ईदृशेन कर्ष- णेन उत्पादितवन्त इत्यर्थः । कृष विलेखने । तेन यवेन हे व्यात ते तव तन्व: शरीरस्य रपः रोगनिदानभूतं पापम् अपाचीनम् अपाङ्मुखम् अप व्यये अपगमयामि ॥ द्वितीया || न्य॑षु॒ग् वा वाति॒ न्य॑क् तपति॒ सूर्य॑ः । नी॒चीन॑म॒घ्या दु॑ते॒ न्यग् भवतु ते॒ रप॑ ॥ २ ॥ न्यं॑क् । वाते॑ । वा॒ति॒ । न्य॑क् । त॒पति॒ । सूर्य॑ । २D हुये. ३ P ते. ४ Bhas no karnuput. BD SC ३ for १. Wo with AKKRV. ५ P न्यक्. We with PJCr. ६ P न्यक्. १ B मुर्प. C- मर्प corrected to 'मुर्प. 18' चतुरुद° We with Kausika and his commentators, .