पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये नी॒चीन॑म् । अ॒या । दु॒हे । न्य॑क् । भवतु॒ । ते॒ । रप॑ः ॥ २ ॥ न्यग् वात इत्याद्या उपमानार्थाः । यथा वातः वायु: न्यग् वाति नीचीनं गच्छति । वा गतिगन्धनयोः ४ । सूर्य: सर्वस्य प्रेरक आदित्यश्च न्यक् नीचीनम् अवाङ्मुखं तपति । अझ्या । गोनामैतत् । अहन्तव्या गौच नीचीनम् अधोमुखं पयो दुहे दुग्धे । “लोपस्त आत्मनेपदेषु ” इति तलोपःX । यथा एते वातादयो न्यक्कधर्मोपेताः हे व्याधित [एवं ] ते तव रपः पापं रोगावहं न्यक् नीचीनम् अधोमुखं भवतु । शाम्यत्वित्यर्थः ॥ 788 तृतीया || आय॒ इद् वा उ॑ भेष॒जीरा अमीव॒चात॑नीः । आपो॒ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥ ३ आप॑ः । इत् । वै । ऊं इति॑ । भेष॒जी । आप॑ः । अमीव॒ऽचात॑नीः । आप॑ः । विश्व॑स्य । भेष॒जीः । ताः । ते । कृ॒ण्वन्तु । भेष॒जम् ॥ ३ ॥ आप इद् वा उ आप एव खलु भेषजी: भेषज्य: सर्वौषधानां त- विकारत्वात् । ४“ सुमङ्गलभेषजाच” इति भेषजशब्दात् ङीप् । “ वा छन्दसि” इति पूर्वसवर्णदीर्घः ४ । अत एव हेतोः आप: अ- मीवचातनी: 66 अमीवानां रोगाणां विनाशयित्र्यः । चातयतिर्नाशने इति यास्क: [ नि० ६.३०]४ । तस्माद् विश्वस्य सर्वस्य रोगजा- तस्य भेषजी: भेषज्य: ता आपः ते तव भेषजम् रोगनिवर्तकम् औषधं कृण्वन्तु कुर्वन्तु ॥ चतुर्थी ॥ वार्तरंहा भव वाजिन् यु॒ज्यमा॑न॒ इन्द्र॑स्य याहि प्रस॒वे मनो॑जवाः। यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ॥ १ ॥ वात॑ऽर॑हाः । भ॒व॒ । वा॒जि॒न् । यु॒ज्यमा॑नः । इन्द्र॑स्य । याहि॒ । प्र॒ऽस॒वे । म- नंःऽजवाः । १ See foot-note on the previous page.