पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० अथर्वसंहिताभाष्ये त॒नूः । ते॒ । वा॒ाजि॒न् । त॒न्वम् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धाव॑तु । श मे॑ । तुभ्य॑म् ।

अहु॑तः । म॒हः । ध॒रुणा॑य । दे॒वः॑ः । दि॒विऽइ॑व । ज्योति॑ । स्वंम् । आ । मिमीयात् ॥ ३ ॥ हे वाजिन वेगवन्नश्व ते तव तनूः शरीरयष्टिः तन्वम् आरूढस्य सा- दिन: शरीरं नयन्ती युद्धभूमिं प्रापयन्ती अस्मभ्यं वामम् वननीयं धनं धावतु प्रापयतु । तुभ्यं च शर्म शस्त्रक्षतादिव्यतिरेकेण सुखं यथा भवति तथा धावतु शीघ्रं गच्छतु । महः महतो दिवः अन्तरिक्षस्य अवकाशात्म- कस्य ग्रामजनपदादेः धरुणाय धारणाय अहुत: अकुटिलगामी भूत्वा दि- वि अन्तरिक्षे ज्योतिरिव सूर्यप्रकाश इव स्वम् स्वकीयं स्थानम् आ मिमी- यात् आगच्छतु । माङ् माने शब्दे च । व्यत्ययेन परस्मैपदम् 11 पंञ्चमं सूक्तम् ॥ इति सायणार्यविरचिते अथर्वभाष्ये पष्ठकाण्डे नवमोनुवाकः ॥ दशमेनुवाके चत्वारि सूतानि । तत्र “ यमो मृत्युः” इति प्रथमं सू- तम् । अत्र आद्यस्य तृचस्य वास्तोष्पत्यगणे पाठाद् वास्तोप्पत्याख्यायां महाशान्ती वास्तोष्पत्यगणमंयुक्तो विनियोगोनुसंधेयः । तद् उक्तं नक्षत्र- कल्पे । वास्तोप्पत्यगणो वास्तोप्पत्यायाम्" इति [ न°क°१४] ॥ तथा यत्र वास्तोप्पत्यगणस्य विनियोगस्तत्र सर्वत्र अस्यापि गणप्रयुक्तो विनियोगो द्रष्टव्यः ॥ 66 तथा बृहद्गणे पाठात् शान्त्युदकाभिमन्त्रणादौ बृहद्गणमयुक्तो विनियो- ग उन्नेयः ॥ 66 तथा स्वस्ययनकर्मणि अनेन तृचेन आज्यसमित्पुरोडाशादिशप्कुल्यन्ता- नि त्रयोदश द्रव्याणि जुहुयात् । सूत्रितं हि । यमो मृत्युः [ ६.९३] विश्वजित् [ ६.१०७] शकधूमम् [ ६. १२७] भवाशर्वौ [ ११.२] इत्युप- दधीत ' इति [ कौ॰७.१] ॥ 66 29 66 १ Ser foot-11ote ३ on the previous page. 1S' repeats the word. 2S omits . २ P सम्.