पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू० ९३.]२६६ षष्ठं काण्डम् । १९१ अत्र "सं वो मनांसि " इति द्वितीयेन तृचेन सांमनस्यकर्मणि ग्राममध्ये संपातितोद कुम्भनिनयनम् तद्वत् सुराकुम्भनिनयनम् त्रिवर्षवत्सिकाया गो: पिशितानां प्राशनम् संपार्तितान्नप्राशनम् संपातिंतसुराया: पायनम् तथा- विधप्रपोदकपायनं च कुर्यात् । सूत्रितं हि । “सं वो मनांसि[ ६. ९४] “संज्ञानं नः [७. ५४] इति सांमनस्यानि । उदकुलिजं संपातवन्तं ग्रामं 'परिहत्य मध्ये निनयति । एवं सुराकुलिजम् त्रिहायण्या वत्सतर्या: शु- 'त्यानि पिशितान्याशयति । भक्तं सुरां प्रपां संपातवत् करोति" इति [ कौ०२.३] ॥ 66 “अश्वत्थो देवसदनः" इति तृचेन राजयक्ष्मकुष्ठादिरोगशान्त्यर्थ कु- ठाख्यौषधमिश्रितं नवनीतम् अभिमन्त्र्य प्रतिलोमं व्याधितशरीरं प्रलि- म्पेत् । “कुष्ठलिङ्गाभिर्नवनीतमिश्रेणातीहारं प्रलिम्पति ” इति [ कौ० ४. ४] सूत्रात् ॥ " 'गर्भो असि" इत्यनया अग्निचयने अप्सु प्रक्षिप्यमाणम् उख्यं भस्म ब्रह्मा अनुजपेत् । “गर्भो अस्योषधीनाम इत्युंख्यं भस्माप्सूप्यमानम' इति हि वैतानं सूत्रम् [वै० ५.१] ॥ या ओषधयः” इति तृचेन ब्राह्मणाकोशे जलोदरे च शान्त्यर्थं सो- मलताम् अग्नौ प्रक्षिप्य व्याधितं धूपयेत् || तथा तत्रैव कर्मणि अनेन तृचेन मधुमि दधि अभिमन्त्र्य पा- ययेत् ॥ 66 तथा क्षीरं तक्रेण संमिश्रय अभिमन्य पाययेत् ॥ तथा दधि मधु क्षीरम उदश्वितं च एकीकृत्य पाययेत् ॥ सूत्रितं हि । “या ओषधय इति मन्त्रोक्तस्यौषधिभिर्धूपयति” इत्या- दि [कौ॰४.७] ॥ तथा “या ओषधयः' इत्यस्या अंहोलिङ्गगणे पाठाद् अनुक्तान्य- प्रतिषिद्धानि भैषज्यानाम् अंहोलिङ्गाभिः ” [ कौ० ४. 6] इत्यादिषु गण- प्रयुक्तो विनियोगो द्रष्टव्यः ॥ 66 1S' संपादितो. 2S कुंभ नि. BS' संपादि 'S' `मिश्रण प्रतीहारं. Som. 6 S ' इत्युख्य°. S' जलोदरं च. "ण".