पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ० १०. सू° ९३.]२६६ षष्ठं काण्डम् | नम॒स्ये॒भ्यो॒ नम॑ ए॒भ्यः कृणोम्य॒न्यत्र॒स्मघवि॑षा नयन्तु ॥ २ ॥ मन॑सा । होमे॑ः । हर॑सा । घृ॒तेन॑ । श॒र्वाय॑ । अस्वे॑ । उ॒त । राशे॑ । भ॒वाय॑ । न॒म॒स्ये॒भ्यः । नम॑ । ए॒भ्यः॒ । कृ॒णोमि॒ । अ॒न्यत्र॑ । अ॒स्मत् । अ॒घऽवि॑षाः । नयन्तु ॥ २ ॥ १९३ 99 मनसा मन:संकल्पमात्रेण हरसा हरणशीलेन तेजसा । तद्धेनुत्वात् ताच्छब्दयम् । तेजोरूपेण घृतेन क्षरणशीलेन आज्येन क्रियमाणैः होमैः सह शर्वाय एतसंज्ञाय देवाय । अस्त्रे क्षेत्रे एतन्नाम्ने । उत अपि च राज्ञे एतेषाम् ईश्वराय भवाय महादेवाय । एभ्य: “यमो मृत्युरघमारः इति प्राग् अनुक्रान्तेभ्य: नमस्येभ्य: नमस्कारार्हेभ्यो नमस्कृणोमि नमस्क रोमि । होमैर्नमस्कारेण च प्रीतास्ते अस्मत् अस्मत्तः अन्यत्र अघवि- षाः । अघं पापमेव विषं विषवन्मृतिकरं यासु ताः कृत्यास्तथोक्ताः । ता नयन्तु प्रापयन्तु ॥ तृतीया ॥ त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद् विश्वे॑ देवा मरुतो विश्ववेदसः । अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्जन्ययो॑ः सुम॒तौ स्या॑म ॥ ३ ॥ त्राय॑ध्वम् । नः॒ । अ॒घऽवि॑षाभ्यः । व॒धात् । विश्वे॑ । दे॒वाः । म॒रुतः । वि॒श्व॒ऽ- वेद॒सः । अस्मान त्रायध्वम् पालयत । अ॒ग्नीषोमा॑ । वरु॑णः । पू॒ऽद॑क्षाः । वा॒ाना॒ाप॒र्जन्ययो॑ः । सु॒ऽम॒तौ । स्याम् ॥ ३ ॥ हे विश्वे देवा: हे मरुतः विश्ववेदसः सर्वधनाः सर्वगोचरज्ञाना वा यूयम् अघविषाभ्यः प्रांगुक्ताभ्यः कृत्याभ्यः वधात् तत्कृतात् हननात नः ॐ अघविषाभ्य इति । 'भीत्रार्या - विश्वे देवा इत्युक्तम् के पुनस्त इत्या- ऋ“ ईदनेः सोम- वरुणयो: " इति अग्निशब्दस्य दीर्घः । सुपां सुलुक् इति पूर्व- सवर्णदीर्घः छु । वरुणः वारयिता पापिनां निग्रहीता देवः पूतदक्षाः पूतं शुद्धं दक्षो बलं यस्य स तथोक्तः । अनेन मित्रो विवक्षितः । “मित्रं नाम् ०" इति पञ्चमी । ह । अग्नीषोमा. अग्निश्च सोमश्च अग्नीषोमौ । 66 २५