पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू° ९५.]२६७ षष्ठं काण्डम् । १९५ उभे मे माम ओते आभिमुख्येन संतते परस्परं संबद्धे वा । देवी द्योतमाना सरस्वती द्यावापृथिव्योर्मध्ये वर्तमाना वाग्देवता सापि ओता अस्मदाभिमुख्येन संबद्धा । ४ आङ्पूर्वाद् वेञ् तन्तुसंताने इत्यस्मा- निष्ठा । वचिस्वपि ० " इत्यादिना संप्रसारणम् । तथा इन्द्रश्च अग्निश्च मे मह्यं मदभिलषितफलसिद्ध्यर्थम् ओतौ आभिमुख्येन संबद्धौ परस्परप्रोतौ वा एककार्योधुक्तौ । अतः एतेषाम् अनुग्रहात हे सरस्वति मन्त्रात्मके देवि इदम इदानीं वयम् ऋध्यास्म समृद्धा भूयास्म । धु वृद्धौ ॥ सप्तमी ॥ अ॒श्व॒न्थो दे॑व॒सद॑नस्तृतीय॑स्यामि॒तो दि॒वि । तत्र॒मृत॑स्य॒ चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ॥ १ ॥ अ॒श्व॒त्थः । दे॒व॒ऽसद॑नः । तृतीय॑स्याम् । इ॒तः । दि॒वि । । तत्र॑ । अ॒मृत॑स्य । चदा॑णम् । दे॒वाः । कुष्ठ॑म् । अव॒न्वत॒ ॥ १ ॥ । “ अश्वत्थो देवसदनः” इति सप्तम्यष्टम्यौ पूर्ववद् [५.४.३,४] अ- त्रापि व्याख्येये ॥ अष्टमी ॥ हि॒र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि । तत्र॒मृत॑स्य॒ पू॒ष्प॑ दे॒वाः कुष्ठेमवन्वत ॥ २ ॥ हिर॒ण्ययीं । नौः । अचरत् । हिर॑ण्यऽबन्धना । दि॒िवि । तत्र॑ । अ॒मृत॑स्य । पुष्य॑म् । दे॒वाः । कुष्ठ॑म् । अ॒व॒न्वत ॥ २ ॥ • नवमी ॥ . गर्भो अ॒स्योष॑धीनां गर्भो हि॒मव॑तामु॒त । गर्भो विश्व॑स्य भू॒तस्ये॒मं मे॑ अग॒दं कृ॑धि ॥ ३ ॥ गर्भैः । असि । ओष॑धीनाम् । गर्भैः । हि॒िमऽव॑ताम् । उ॒त । गर्भः । विश्व॑स्य । भू॒तस्य॑ । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒धि ॥ ३ ॥ १ J पुष्यँ. We with ABBrBDKKR SPÈvc-Cr.