पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ अथर्वसंहिताभाष्ये हे असे त्वम् ओषधीनाम् । ओषः पाकः आसु धीयत इति ओष- ध्रयः सर्वा वीरुधः । तासां गर्भ: गर्भवद् अन्तरवस्थितः असि भवसि । उत अपि च हिमवताम् शीतस्पर्शवताम् अन्येषामपि वनस्पतीनां हिमव- प्रमुखानां पर्वतानां वा हे अग्ने त्वं गर्भो भवसि । किं बहुना । वि- श्वस्य सर्वस्यापि भूतस्य भूतजातस्य त्वं गर्भो भवसि । अमे: सर्वज- गत्परिपाकहेतुत्वेन सर्वत्र अन्तरवस्थानात् । ईदृशस्त्वम् इमं मे मदीयं जनम् अगदम् रोगरहितं कृधि कुरु ॥ दशमी ॥ या ओष॑धयः॒ सोम॑राज्ञीर्वह्वीः शतवि॑िचक्षणाः । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्व॑ह॑सः ॥ १ ॥ याः । ओष॑धयः । सोम॑ऽराज्ञी: । ब॒ह्वीः । श॒तऽविचक्षणाः । बृह॒स्पति॑ऽप्रसूताः । ताः । नः । मुञ्च॒न्तु | अंह॑सः ॥ १॥ या ओषधयः वीरुधः सोमराज्ञीः सोमः अमृतमयो देवो राजा ई- श्वरो यासां तास्तथोक्ताः । * बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । जसि “ वा छन्दसि” इति पूर्वसवर्णदीर्घः ४ । बह्वीः बह्वयः अनेकवि- धाः । हु“बह्लादिभ्यश्च” इति ङीष् । शतविचक्षणाः शतं- विधदर्शनाः । रसवीर्यविपाकेन नानाविधज्ञानोपेता इत्यर्थः । बृहस्पति- प्रसूता: बृहस्पतिना देवेन तत्तद्रोगभैषज्येषु प्रसूताः प्रेरिताः । विनियुक्ता इत्यर्थः । तास्तथाविधा ओषधयः नः अस्मान् अंहसः पापात् नानावि- धरोगनिदानात् मुञ्चन्तु विसृजन्तु पृथक् कुर्वन्तु ॥ एकादशी || 66 मुञ्चन्तु॑ मा शप॒थ्या॒ाद वरु॒ण्यदुत । अथो॑ य॒मस्य॒ पनी॑शाद् विश्व॑स्माद् देवकिल्षात् ॥ २ ॥ मु॒ञ्चन्तु॑ । मा॒ा । श॒प॒थ्यत । अथो॒ इति॑ । व॒रु॒ण्यात् । उ॒त । १ B 'बींशा R Vबीशा°. We will ADšPPKKCs CP, 1S' दश° for शन.