पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू° ९६.]२६९ षष्ठं काण्डम् । १९७ अथो॒ इति॑ । य॒मस्य॑ । पशात् । विश्व॑स्मात् । दे॒व॒ऽकल्पात् ॥ २ ॥ आपः ओषधयो वा मा मां शपथ्यात् शपथजनिताद् ब्राह्मणाक्रोश- जात पापाद् मुञ्चन्तु वियोजयन्तु । अथो अपि च । उतशब्द: अप्य र्थे । वरुण्यात् वरुणकृताद् अनृतवदनादिजनितात पापादपि मुञ्चन्तु । “अनृते खलु वै क्रियमाणे वरुणो गृह्णाति" इति हि श्रुतिः [तैबा १.७.२.६.] । अथो अपि च यमस्य अन्तकस्य संबन्धिन: पड्डीशात पादबन्धनपाशाद् मुञ्चन्तु । ४ पड़ीशशब्दः पृषोदरादिः ४ । अनेन विशेषकथनेन । विश्वस्मात् सर्वस्माद् देवकिल्बिषात् देवकृतात् पा- पाद् मां मुञ्चन्तु ॥ किम द्वादशी | यञ्चक्षु॑षा॒ मन॑सा॒ यच्च॑ वा॒चोपरम जाय॑तो यत् स्व॒पन्त॑ः । सोमस्तानि॑ स्व॒धया॑ नः पुनातु ॥ ३ ॥ यत् । चक्षु॑षा | मन॑सा । यत् । च । वाचा । उपआरम । जाग्र॑तः । यत् । स्वपन्त॑ः । सोम॑ः । तानि॑ । स्व॒धया॑ । नः॒ । पुना॒तु ॥ ३ ॥ T: 66 यम् । जाग्रत: जाग्रदवस्थापना इन्द्रियैः शब्दस्पर्शादिविषयान् व्यवहरन्तो व 3 जागृ निद्राक्षये । अस्मात् लटः शत्रादेशः । जक्षित्या- दय: ०" इति अभ्यस्तत्वाद् 'नाभ्यस्तात्" इति नुमभावः । क्षुषा । उपलक्षणम् एतत् । चक्षुरादीन्द्रियेण प्रतिषिद्धबाह्यविषयगतरू- पादिग्राहिणा | मनसा प्रतिषिद्धविषयसंकल्पविकल्पजनकेन मानसेन्द्रियेण यद् उपारिम यत् पापम् उपंगताः । ॠ गतौ इत्यस्मात् लिटि रूपम् । यञ्च पापं वाचा | कर्मेन्द्रियाणाम् उपलक्षणम् एतत् । वागादिकर्मेन्द्रियेण कामचारवादादिना उपगताः स्मः । तथा स्वपन्तः स्वभावस्था वयं तत्र बाह्येन्द्रियाणाम् उपरमात् केवलं मनसैव यत् पापं चक्रम नः अस्माकं तानि पापानि सोमः पितृलोकाधिपतिर्देवः स्वधया पितॄन् उद्दिश्य अस्माभिः क्रियमाणया | स्वधाकारोपलक्षितेन पिज्यकर्म- 66