पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
अथर्वसंहिताभाष्ये

‘‘उदेनम् उत्तरं नय" “योस्मान् ब्रह्मणस्पते” इति तृचाभ्या ग्राम कामः इन्द्रं यजते उपतिष्ठते वा ॥

तथा आभ्यां तृचाभ्याम् उदुम्बरपलाशकर्कन्धूतक्षणाधानम् सभोपस्तर णतृणाधानम् अभिमन्त्रितान्नासवप्रदानं वा कुर्यात् ॥

सूत्रितं हि । ‘‘उदेनम् उत्तरं नय [ ६. ५] योस्मान् [ ६. ६] इन्द्रः सुत्रामा [७. ९६] इति ग्रामकामो ग्रामसांपदानाम् अप्ययः’ इति [कौ० ७. १० ]॥

तथा दर्शपूर्णमासयोः आग्नेयचरुम् ‘‘उदेनम् उत्तरं नय”’ इत्याद्याभि स्तिसृभिग्भिर्जुहुयात् । सूत्रितं हि । ‘‘उदेनम् उत्तरं नयेति पुरस्ताद्धोम संहृतां पूर्वी एवं पूर्वापूर्वा संहतां जुहोति स्वाहान्ताभिः प्रत्यूच हो: ‘‘माः” इति [ कौ° १. ४]॥

तथा अग्निचयने घोडशगृहीतवैश्वकर्मणहोमानन्तरम् ‘‘उदेनम् उत्तरं नय’ इत्यनेन आधीयमानाः ’समिधो ब्रह्म अनुमन्त्रयेत । ‘‘ उदनम् उत्तरं नयेति समिध आधीयमानाः ” इति वैतानसूत्रात् [ वै° ५. २]॥ दर्शपूर्णमासयोः ‘‘ इन्दोमं प्रतरं कृधि” [२] इत्यनया ऐन्द्रम् आधारं ब्रह्म अनुमन्त्रयेत ।

तथा अनयैव ऐन्द्रं सांनाय्ययागम् अनुमनत्रयेत ॥

‘‘इन्द्रुमम् इत्यैन्द्रम् आधारम्’’ इति [वै०१.२] “सांनाय्यस्येन्द्रे मा- हेन्द्रं वेन्द्रसम् [२] त्वम् इन्द्रस्वं महेन्द्रः [१७.१८ ?” इति च वैतानं सूत्रम् [वै° १. ३ ॥

अद्भुतमहाशान्तौ इन्द्रयजने ‘‘इन्द्रेमं मतरं कृधि” [२] इत्येषा ऋग् विनियुक्त । तद् उक्तं नक्षत्रकल्पे । ‘‘ अथातोद्धृतमहाशान्तौ दिशो यज ते इति प्रक्रम्य ‘‘इन्द्रुमं प्रतरं कृधीतीन्द्रस्य ” इति श्री न' क' १४ ॥

तत्र प्रथमा ॥

उदैनमुत्तरं नयामें घृतेनहुत
समेनं वर्चसा सृज प्रजयां च दृढं कृधि ॥ १ ॥

1 S’ हितां. \e with 'Kudy Met.'